Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 20
________________ श्री चैत्यवंदनचतुर्विंशतिः [ १५ ] (१५) श्रीधर्मनाथचैत्यवन्दनम् ( आख्यानकी") संवादिनी गीर्भुवनत्रयस्य गिरां चतुष्क्रोशगमा यदीया । अर्ध्या गुणा भानुसुतस्य तस्याऽभिनन्दये चारु चरित्रभावम् ॥१॥ चिन्तामणि धर्मजिनेश्वरं यो दधाति चित्ते स समीहितं हि । सम्प्राप्नुयाज्ज्ञानसमस्तवित्तं दरिद्रभावं सकलं पिनष्टि ॥२ ॥ लोकाब्धिपारप्रगतो महेशो ___जनं तथा पारयति प्रभु यः। श्री वीतरागः स उपासनीयः सदैव सध्यानविशिष्टचित्तः ॥३॥ १५ " आख्यातकी तौ जगुरू ग ओजे जतावनोजे जगुरू गुरुश्चेत्” इति लक्षणम् । यत्र प्रथमतृतीयपादयोः त-त-जगणा द्वौ च गुरू स्तः द्वितीयचतुर्थपादयोर्ज-त-जगणा द्वौ गुरू च सा आख्यातकीत्यर्थः, अपरनामाख्यानकी । श्लोकेऽस्मिन् एकादशाक्षरपरिमितः पादो बोध्यः ।

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40