Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 17
________________ [१२] श्रीमद्विजयलब्धिसूरीधरप्रणीता (१२) श्रीवासुपूज्यजिनचैत्यवन्दनम् ( वंशस्थ ) अनन्तविज्ञानविकाशनाद् विभुः कलाधिपाधिक्यमहोमहोर्मितः । व्यनाशयद् योऽधतमो जिनेश्वरोऽ नवद्यरूपं विमलं भजामि तम् ॥१॥ स वासुपूज्यो यशसा महोज्वलो भवार्णवान्मा प्रहतं कुकर्मणा । समागतं श्रीजिनपादपङ्कजं निरन्तरं रक्षतु लोकपावनः ॥२॥ स्मरादिशत्रुक्षयकारि यद्बलं - जगत्तृषाहारि च यद्वचोऽमृतम् । समग्रसंशीतिहरा च यस्य वि ज्जिनेश्वरं नौमि तमीड्यमीश्वरम् ॥३॥ • १२ “जतौ तु वंशस्थमुदीरितं जरौ” इति हि तत्स्वरूपम् । पत्र पादे ज-त-ज-रा गणा भवेयुः तद्वंशस्थं छन्द इति भावः। पादेऽत्र द्वादशाक्षराणि भवन्ति ।

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40