Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 15
________________ [१०] श्रीमद्विजयलब्धिसूरीश्वरप्रणीता(१०) श्रीशीतलनाथचैत्यवन्दनम् ( स्रग्धरा ) विज्ञानाम्भोधरं त्वां मदनदहनतस्तप्तभव्यात्मभूम्यां वर्षन्तं ज्ञानतोयं सुखकरचरणोत्पत्तिहेतुं निरीहम् । तृप्ता ज्ञानाम्बुपानाद्विबुधगुणिजना भावतः शान्तचित्ता नित्यं हर्षाद् भजन्ते विपुलगुणधरं शीतलं श्रीजिनेन्द्रम् ॥१॥ नन्दाकुक्षिप्रसूतो दृढरथनृपतेर्नन्दनो ज्ञानदाता विश्वे विज्ञानशाली *प्रकृतितिमिरहा तत्त्वपीयूषपूर्णः । भव्यानां भक्तिभाजां मनसिजहरणे यो महेशस्वरूपो नित्यानन्दप्रसिद्ध परमशुभकरं नन्नमीमि प्रकामम् ॥ २ ॥ श्रद्धा त्वत्पादपद्मे स्मृतिरपि मम ते शासनस्य प्रभूता त्वय्यर्चा नित्यमीहे नयनयुगलकं दर्शनाते प्रसन्नम् । संस्तुत्यान्ते प्रसक्तं गुणगणरसिकं मानसं मे प्रशस्तं जिह्वाकर्णौ पवित्रौ ग्रहणश्रवणतस्त्वद्गुणानां सदैव ॥ ३ ॥ १० "नभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेऽयम्" इति लक्षणम् । यत्र पादे म-र-भ-न-य-य-यगणास्सन्ति सा स्रग्धरेत्यर्थः । अस्य वृत्तस्य सप्तमे सप्तमे सप्तमे यतिः । श्लोकेऽस्मिन् एकविंशत्यक्षरप्रमितः पादो बोध्यः।*कर्मप्रकृतिरित्यर्थः

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40