Book Title: Chaityavandan Chaturvinshati
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 12
________________ श्री चैत्यवंदनचतुर्विंशतिः [५] स्याद्वादभङ्गरचनार्पितसत्यबोधं पद्मप्रभं प्रतिदिनं प्रणमामि भक्त्या ॥३॥ (७) श्रीसुपार्श्वनाथचैत्यवन्दनम् ( मालिनी) विततविमलभावः शुद्धशान्तस्वभावो दिनकर इव नाथो दुर्मतिध्वान्तनाशी । स्वपरसमय सिद्धप्राणितत्त्वप्रकाशी निखिलगुणगणानामाकरः श्रीजिनेशः ॥१॥ रिपुदलमिव चक्री सर्वरोगादिशत्रून् __परिहरति जिनेशो धूतनिःशेषपापः। . - भविजनसुखकारी शुद्धचारित्रधारी जयति विदितसारःप्राणिरक्षाप्रचारः॥२॥युग्मम् ।। विकचकमलनेत्रं पूर्णचन्द्रानन न्तं .. चरणकरणगेहं प्राप्तसौन्दर्यदेहम् । भविजननुतपादं ध्वस्तसर्वप्रमादं भजत भविकजीवाः श्रीसुपाचं जिनेन्द्रम् ॥ ३॥ ७ " ननमयययुतेयं मालिनी भोगिलोकैः” इति लक्षणम् । यत्र पादे न-न-म-य-यगणा भवन्ति अष्टसप्तभिर्विरामश्च सा मालिनीत्यर्थः । श्लोकेऽस्मिन् पञ्चदशाक्षरपरिमितः पादो बोध्यः॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40