Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti
View full book text
________________
(१५)
धीरोह सुरुहचली-करणे धुरीणा, दुरं तमो विसररेणु विसारिणो मे । वाला समीरण रया इव तुल पूलं, चित्तं हरन्ति भण किंकर वाणि देव ॥२२॥
धीरोइत्यादि । धीरा-पंडितानां य ऊहो वितर्क-स्तस्वातत्त्वविचारः स एव भुरुहो वृक्षस्तस्य चलीकरणं चापल्यापादनं तत्र धुरीणा अग्रेसराः दरमत्यर्थ तमो विसर एव अज्ञानपटलमेव रेणु-धूलिस्तस्य विसारिणो-विस्तारिणः तमोविसररेणुविसारिणः। एवंविधा बालाः स्त्रियस्ता एव चापल्यापादन मस्थैर्वकरण साधात् समीरणरयाः पवनपूराः, बाला समीरगरया मे-मम चित्तं तूल पूल मिव-अर्कतूलपुञ्जमिवहरन्ति।ललित लीला कटाक्षक्षेपादिभिामोहत्यादयानादन्यतो नयन्ति । ततो भण-हि-
किशब्दः प्रश्नार्थस्ततः किंकरवाणि किंकरवै।हे देव! आदेश देहीति भावः यथा त्वदादेशेन दृढममा भवामीति ॥२२॥
इच्छा ज़ले कलिमले चिलचित्तकच्छे, रूढं विरुद्धरस भावफलावलीढम् । आरंभदंभचिरसंभव-वल्लिजालं, हे वीर सिन्धुर ! समुद्धर मे समूलं ॥ २३ ॥
इच्छेत्यादि । इच्छा-स्त्रीधनाद्याकांक्षा सैष आरंभदंभव. ल्ल्युत्पत्ति हेतुत्वाजलं यत्र स तत्र । कलिः-कलहो मलं-पापं ततो द्वन्द्वस्ते, तथा ताभ्यामाविले-मलिनं यश्चित्तं तदेव कच्छ:सरसप्रदेशः स तत्र, 'कच्छोछमेदेनौकांगेऽनूगमायतटेऽपि चाइति हैमानेकार्थोक्तेः । कलिमलाविलचित्त कच्छे रूढंसमुत्पन्न तत्तथा । विरुद्धरसानि यानि भावफखानि नरकतिर्यः ग्मतिरूपाणि तैरवलीढंच्याप्तं तत्तथा । एवंविधं मे-मम आरंभो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55