Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti

View full book text
Previous | Next

Page 42
________________ (२९) नतसुरपतिकोटिकोटीरकोटीतटीश्लिष्टपुष्ट प्रकृष्टद्युति घोतिताशाननाकाशसर्वावकाशप्रदेशोल्लसनीलपीतारुणश्यामवर्णाट्यरत्नावली। प्रसूपरकरवारविस्तारनिर्मेरनीरांतरानीरजन्मेंदिरा सारसंभारसारानुकारप्रकारक्रमन्यासपावित्र्यपात्रीकृतानार्यवर्यार्यभूमंडली। . बहुलतिमिरराशिनि शिभासामधीशांशुसंदोहसंकाशसत्केवलज्ञानसंलोकितालोकलोकस्वरपासुरूपायवैताब्यवासीशमुख्यमुख्यैः श्रिता जिनपतिविततिस्तनोतु श्रियं श्रायसी ज्यायसी प्राप्रभाजां सदाभक्तिभाजा कलाकैलिकेलीसमारंभरमा महास्तंभहेलादलीकारकुंमीशसाराभुता ॥ १॥ व्याख्या-जिनपतीनां ऋषभादिचतुर्विशत्यहतां विततिः-श्रेणिः जिनपतिविततिः,प्राणभाजांप्राणिनां श्रायसी मुक्तिभवां श्रियं-लक्ष्मी शोभा वा तनोतु-विस्तारयतु इत्यन्वयः। श्रेयसि भवं श्रायसं, देविकाशिशिपादित्यूहदीर्घसत्रश्रेयसामाद इति सूत्रेण अणि प्रत्यये श्रायसमिति, स्त्रियां तु श्रायसीति सिद्धम् । किविशिष्टयं श्रियं ज्यायसी-प्रतिप्रशस्यां वृद्धां वा। ज्यायान् वृद्धे प्रशस्येच इत्यनेकार्थोक्तः। किंभूतानां प्राणमाजांसदा-नित्यं भक्तिभाजां-सेवापराणाम् । किविशिष्टाजिनपतिविततिः, कमाकेलि:-कन्दर्पस्तस्य केली क्रीरा तस्याः समारम्मःसमुत्पादः स एव रम्भा महास्तम्मः-कदलीप्रकाण्टस्तस्य हे. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55