Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti
View full book text
________________
(३१) किंभूता जिनपतिविततिः सुष्टुरूपेण-सौन्दर्येण बाढया युक्ता ये वैताढयवासिनो विद्याधरास्तेषामीशाः स्वामिनस्तन्मुख्यस्तत्प्रभृति मिः सुरूपाढयवैताढयवासीशमुख्यैः नृमुख्यैः पुरुषश्रेष्ठैः श्रिता सेविता । इति प्रथम दण्डक व्याख्या ॥१॥
अथ द्वितीये सर्वजिनानभिष्टौतिअमरनिकरक्लप्तकिकिल्लिसम्फुल्लफुल्लावलीप्रान्तवेल्लन्मधुस्यन्दनिःस्पन्दबिन्दुप्रपापानसंजायमाना
समानध्वनिध्वानसन्धानरोलम्बमत्ताङ्गना। विरचितनवरङ्गभङ्गीतरङ्गीभवच्चङ्गरागाङ्गसङ्गीतिरीतिस्थितिस्फीतिसंप्रीणितिप्राणिसारङ्गचित्तं
महानन्दभित्तं रमाकन्दवृत्तं सुवृत्तं सदा ॥ समवसरणमण्डपं भूषयन्तो नयं नव्यभव्यान् वचश्वस्तरीविस्तरैस्तयन्तो मयं भीमभावारिवीरो
दयं निर्दयं दान्तदुर्दान्तसर्वेन्द्रियाः। विदधतु विबुधाबाधामगाधा जिनाधीश्वरा भाखरा मेदुरां सम्पदं दन्तिदन्तान्तराकापतिप्रान्तविश्रान्तकान्तिच्छटाकूटपेटद्यशः सञ्चयाः॥२॥
व्याख्या-जिनाः सामान्यकेवलिनस्तेषां मध्येऽष्टमहाप्रातिहार्यादिसमृद्धया, अधि-आधिक्येन ईश्वराः स्वामिनः अधीश्वरा जिनाधीश्वरास्तीर्थकरा देहिनां-प्राणिनां सदा-नित्यं सम्पदं मुक्तिरूपां विदधतु-कुर्वन्तु । कीदृशानां देहिनां विबुधां विशेषेख बुध्यन्ते जीवाजीवादिपदार्थसाथै जानन्तीति विपि प्रत्यये विबुधस्तेषां सम्यग्दृष्टिविदुषामित्यर्थः । किंविशि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55