Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti

View full book text
Previous | Next

Page 50
________________ ( ३७ ) व्याख्या-सरस्वती-शारदा देवी प्रसद्य-प्रसादं विधाय भुवनहितकरं-विश्वहितविधायक परं-प्रकृष्टं सौवं आत्मीयं धामतेजः परब्रह्माख्यं प्रदद्यात्-ददातु। तथा मम अवद्यबन्धं पापकर्मबन्धनं विभिद्यात्-मिनत्त । किंविशिष्टा शारदा? हिमकरस्य चन्द्रस्य करा:-किरणा हारो मुक्ताकलापो नीहारो-हिमं हीरस्यईश्वरस्य अहहासो-महाहास्यं । उच्चलन् क्षीरनीराकरस्य-क्षीरसमुद्रस्य स्फारो विस्तीणों डिंडीरपिण्डः-फेनप्रकरस्तस्य प्रकाण्डः-प्रशस्तः स्फुरन्नुल्लसन् यः पाण्डिमाडम्बर:-शुभ्रत्वाडंबरः तद्वत् उद्दण्डा-उत्कृष्टा या देहातिः-कायकान्तिस्तस्याः स्तोमः-समूहः स एव विस्तारिणी शंखच्छटा-कम्बुश्रेणिस्तया धवलितं सकलं-सर्व त्रिलोकी सलं भूर्भुवस्स्वस्त्रयीलक्षण यया सा हिमकर ॥ पुनः कीदृशी शारदा? कुण्डलाभ्यां-नानारत्ननिचयखचित-कर्णाभरणाभ्यां आलीढे-स्पृष्टे गण्डस्थले-कपोलतले यस्याः सा कुण्डलालीढगण्डस्थला । पुनः कीदृशी शारदा? हारस्य-मुक्तावल्याः संचारणया-कण्ठपीठनिवेशनेन हारि-मनो. हरं वक्षःस्थल-हृदयं यस्याः साहारसंचारणाहारिवक्षःस्थला। पुनः कीटशी शारदा? नूपुरारावेण-मञ्जीरसिञ्जितेन संराविशब्दायमानं कृतं दिङ्मण्डलं-ककुचक्रं यया सा नूपुरारावसंपविदिमण्डला । पुनः कीदृशी शारदा? हंसवंशे-गजहंसकुले हंसवन्देऽवतंसः-शेखरभूतो भारतीवाहन-सक्तः प्रधानराजहंसस्त अधिरोहेण उज्ज्वला-निर्मलादीमा वा या तथा, अथवा हंसस्य-सितच्छदस्य वंशः पृष्ठावयवस्तत्र अवतंसवत्मुकुटवच्छोभाविधायित्वादधिरोहो यस्याः सा हंसवंशावतंसाधिरोहा। उज्वले ति पृथग्भारतीविशेषणं । वंश संधे चये पृष्ठावयवे कीचकेपि च-इत्यनेकार्थोंकेः । पुनः कीदृशी शारदा? विनमन्त्यः-प्रणमन्त्यो या अमरसुन्धयों-देवाङ्गनास्तासां कण्ठपीठीषु-कण्ठस्थलेषुलुठन्तश्चलन्तो ये तारहारा-निर्मलमोShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55