Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti
View full book text
________________
( ३५) दलानि पुगलास्तेषां जालं वृन्दं तदेव जम्बालं कर्दमस्तस्य निक्षाखाने-पाठान्तरे वा प्रज्ञालनेऽपनयने स्वच्छनीरमिव-निर्मलसलिलमिव स्वच्छनीरं कलमलदलजालजम्बालनिक्षालनस्वच्छमीरं । पुनः कीदृशं श्रीजिनेन्द्रागमं कषाय एवानलो वह्निस्तस्य प्रज्वलज्ज्वालैः जाज्वल्यमानज्वालाभिः सन्तापितानि अंगानि येषां ते तथा ईदृशो येऽगिनः प्राणिनस्तेषां यः सन्ताप उष्मा तस्य निर्वापणे उपशमने अम्भः करीर इव अम्भः करीरः पूर्णकुम्भः सतं कषायानलप्रज्वलज्ज्वालसन्तापितांगांगिसन्तापनिपिणाम्भःकरीरं। वन्हे यो लिकीलावित्यमरकोषोतरत्रज्वा . लशब्दस्य पुल्लिङ्गता । पुनः कीदृशं श्रीजिनेन्द्रागमं लसत्सम्पदा स्फुरद्गुणोत्कर्षाणां संविदां सम्यग् ज्ञानानां कुटीरं आश्रयं । सम्पदा द्वौ गुणोत्कर्षे इत्युक्तेः । पुनः कीदृशं श्रीजिनेन्द्रागमं कुमतानि योगसौगतकाणादकपिलजैमिनीयबार्हस्पत्यादीनितान्येव वितता विस्तीर्णास्तुंगा-उन्नता निर्गतो भंग:-पराजयो येषां ते निर्मगा दुर्जयाः सारंगाग्रजास्तेषां निर्भगे निश्चयेन भंजने सारंगनाथ व सारंगनाथस्तं कुमतविततः । पुन: किविशिष्टं श्रीजिनेन्द्रागमं शिवधीः कल्याणलक्ष्मीरथवा शिवहेतु मोक्षहेतु र्या श्रीः शिवश्रीस्तया सनाथं सहितं शिवश्रीसनाथं पुनः किविशिष्टं श्रीजिनेन्द्रागमं कृतः अघस्य पापस्य प्रमाथो मथनं येन स तं कृताघप्रमाणं । पुनः किंविशिष्ट्र श्रीजिनेन्द्रागम महान् आयामो दैर्घ्य यस्याः सा, एवंविधा या माया सैव महीं भूमिस्तस्याः दारे विदारणे सीरं हलं महायाममायामहीपारसीरं । पुनः किंविशिष्टं श्रीजिनेन्द्रागमं गभीरं-मलधमध्यं, एकस्यापि सूत्रपदस्यानन्तार्थकलितत्वात् । पुनः किंविशिष श्रीजियेन्द्रागमं महसां उत्सवानां या मन्दिरं । महस्ते अस्युत्सवे चेति हैमानेकार्थोकेः। पुनः किविशिष्टं श्रीजिनेन्द्रा
गमं घनतमा प्रतिबहवो ये गमा सहशपाठास्तेषां संगमः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55