Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti

View full book text
Previous | Next

Page 32
________________ गंगानीरामलगुणलवं ते समुच्चारिणे मे, सिद्धावासं बहुभवभयारंभरीणाय देहि ॥२९॥ गुंजेत्यादि । गुंजापुंजवदरुणा भारताः कररुहा नखा यस्य स तत्सम्बोधनं । आयामो दैर्ध्य तेन संपन्नौ प्रलंवावित्यर्थे बाहू यस्य स तत्संबोधनं । भंदारामे-कल्याणवने कुसुमसमयंवसन्ततु एवंविधं गुणलवं, हे वीरदेव ! ते-तव समुच्चारिणेकथकाय मे-महयं अविलम्बं-शीघ्र सिद्धावासं-मोक्षं देहि । किं. भूताय महायं? बहुभवभया-भूरिभवातंकोपक्रमखिन्नाय गंगानीरवरमलं निर्मल गंगानीरामले ति प्रभोः संबोधनं । ननु गुणलवं समुञ्चारिणे इत्यस्य कथंसिद्धिः ? उच्यते-अवश्यं समुचारयिप्यामीति समुचारी तस्मै, अत्र णिन् वावश्यकाधमये इत्यनेनैध्यत्यर्थे गम्यमानावश्यकार्थे च णिन् प्रत्यये 'सत्येष्यहणेन' इत्यनेन सूत्रेण कर्मणि षष्ठी प्राप्ति निषिध्यते, वर्तमानता प्रतीतिस्तु प्रकरणवशादित्यस्य सिद्धिः॥ अत्र मन्दाक्रान्ता छंदः ॥ २९ ॥ एवं श्रीजिनवल्लभप्रभुकृत स्तोत्रांत्यपादग्रहात्, कृत्वा ते ममसंस्कृतस्तवमहं पुण्यं यदापं मनाक् । संसेव्यक्रम पद्मराज निकरैः श्रीवीरतेनार्थये , नाथेदं प्रथय प्रसाद विशदां दृष्टि दयालो! मयि ॥३०॥ इति श्री खरतरगच्छाधिराज श्रीजिनहंसमरि शिष्य महोपाध्याय श्रीपुण्यसागर शिष्येण वाचक पद्मराज गणिना कृतं भावारिवारणांत्यपादसमस्यामयं समसंस्कृतस्तवनं । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55