Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti
View full book text
________________
(२६) परागोऽपरागोपरागोऽपरागो
वदाताऽवदातावदाताऽऽवदाता ॥५॥ ' व्याख्या-'क्षमारक्ष'हे क्षमारक्ष! पृथ्वीपालक ! रक्ष पालय मा मां, मार:-स्मरः स एव तो-राक्षसस्तं मारयतीतिमारक्षमारस्तत्संबोधनं हे मारक्षमार ! प्रभावः-अनुभावःप्रभाकान्तिस्ताभ्याम् अवति-प्रीणातीति सः, ततः सम्बोधनम्, प्रकपेण भासत इति प्रभावो, वप्रः-प्राकारस्तस्य भावः-प्राप्तिर्यस्य तदामम्त्रणम् , यदि वा प्रगतोभावो-जन्म यस्य स तदामन्त्रणम्, प्रकृष्टो भावः-स्वभावो यस्य स तदामन्त्रणम् , किंभूतः पर:-प्रकृष्टोऽगो-वृक्षोऽर्थादशोकतर्यस्य स परागः, यदि वा परा भा-समन्ताद्गौः-वाणी यस्यासौ परागुस्तदामन्त्रणं हे प. रागो!, अप गतो राग एव उपरागः-उपप्लवो यस्य सः अपरागोपरागः, न विद्यन्ते परे-वैरिणो यस्य सोऽपरस्तदामन्त्रण हे अपर! पुनः कीदृशस्त्वम् ? आगः-पापम् अवधति-खण्डयतीति मागोवदाता 'आगः स्यादेनोवदायमंती' इत्यनेकार्थोकेः,अवदाता-निर्मला अवदाताः-चरित्राणि यस्य स तथा, तदामन्त्रणं हे अवदातावदात ! पुनः कीदृशस्त्वम् ? 'अव रक्षणकान्ति प्रीत्यादिषु, इति धातुपाठोके:-श्रावनम् भाव:-प्रीतिस्तं ददातीति प्रावदाता ॥ ५॥
इत्थं मया परमया रमया प्रधानस्तोत्रं पवित्रयमकैर्विहितं हितं ते । पार्श्वप्रभो ! त्रिभुवनाश्तपत्रराजदिन्दीवरच्छवितनो ! वितनोतु सातम् ॥६॥
॥ इति श्रीपार्श्वनाथलघु-स्तवनम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55