SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ (२६) परागोऽपरागोपरागोऽपरागो वदाताऽवदातावदाताऽऽवदाता ॥५॥ ' व्याख्या-'क्षमारक्ष'हे क्षमारक्ष! पृथ्वीपालक ! रक्ष पालय मा मां, मार:-स्मरः स एव तो-राक्षसस्तं मारयतीतिमारक्षमारस्तत्संबोधनं हे मारक्षमार ! प्रभावः-अनुभावःप्रभाकान्तिस्ताभ्याम् अवति-प्रीणातीति सः, ततः सम्बोधनम्, प्रकपेण भासत इति प्रभावो, वप्रः-प्राकारस्तस्य भावः-प्राप्तिर्यस्य तदामम्त्रणम् , यदि वा प्रगतोभावो-जन्म यस्य स तदामन्त्रणम्, प्रकृष्टो भावः-स्वभावो यस्य स तदामन्त्रणम् , किंभूतः पर:-प्रकृष्टोऽगो-वृक्षोऽर्थादशोकतर्यस्य स परागः, यदि वा परा भा-समन्ताद्गौः-वाणी यस्यासौ परागुस्तदामन्त्रणं हे प. रागो!, अप गतो राग एव उपरागः-उपप्लवो यस्य सः अपरागोपरागः, न विद्यन्ते परे-वैरिणो यस्य सोऽपरस्तदामन्त्रण हे अपर! पुनः कीदृशस्त्वम् ? आगः-पापम् अवधति-खण्डयतीति मागोवदाता 'आगः स्यादेनोवदायमंती' इत्यनेकार्थोकेः,अवदाता-निर्मला अवदाताः-चरित्राणि यस्य स तथा, तदामन्त्रणं हे अवदातावदात ! पुनः कीदृशस्त्वम् ? 'अव रक्षणकान्ति प्रीत्यादिषु, इति धातुपाठोके:-श्रावनम् भाव:-प्रीतिस्तं ददातीति प्रावदाता ॥ ५॥ इत्थं मया परमया रमया प्रधानस्तोत्रं पवित्रयमकैर्विहितं हितं ते । पार्श्वप्रभो ! त्रिभुवनाश्तपत्रराजदिन्दीवरच्छवितनो ! वितनोतु सातम् ॥६॥ ॥ इति श्रीपार्श्वनाथलघु-स्तवनम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034777
Book TitleBhavarivaran padpurti Stotra Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherHindi Jainagam Prakashak Samiti
Publication Year1950
Total Pages55
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy