Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti

View full book text
Previous | Next

Page 33
________________ एवमित्यादि । एवं पूर्वोक्त प्रकारेण श्रीजिनवल्लमप्रभुमिः . श्रीजिनवल्लभपूज्यैः कृतं यत्स्तोत्रं-स्तवनं भावारिवारणाभिध तस्य योऽत्यस्तुर्यः पादस्तस्यग्रहो- ग्रहणं आश्रयणं स तस्मात् । हे प्रभो ! से-तव समसंस्कृतस्तव-संस्कृतप्राकृतशब्दैः सममेकसदृशं संस्कृत-संस्करणं समसंस्कृतं तेन संबद्धः-ग्रथितः स्तव:स्तवनं समसंस्कृतस्तवस्तं कृत्वा-अहं स्तवकर्ता यन्मनाक् किंचित्पुण्यं सुकृतं पापं प्राप्तवान् । संसेव्यं-सेवनीयं कमपनंचरणकमलं यस्य स तत्संबोधनं । हे संसेव्यक्रमपन ! के राजनिकरैः पार्थिवसाथैः हे श्रीवीर! वर्द्धमानविमो! तेन पुण्येनाहमिदमर्थये याचे प्रार्थनामेव प्रकटयति। हे नाथ! हे दयालो! कृपापर ! प्रसादविशदामनुग्रहोज्ज्वलां स्वीयां दृष्टिं दृशं मयि भक्या स्वकर्तरि प्रथय-विस्तारय, यथा तव सौम्यहम् विलोकनेन मम सर्व समीहित सिद्धिर्भवतीति भावः । किंचेह-संसेव्यक्रम पद्मराजेत्यनेन-पदेन लिषं कविना पद्मराजेति स्वनामस्चितं ॥ अथ शार्दूल विक्रीडितं नाम छन्दः ॥ ३० ॥ इति श्री पुण्यसागर महोपाध्याय शिष्य पनराज वाचकेन विरचिताश्रीमावारिवारणामिधस्तवतुर्यपादनिबद्ध समसंस्कृतसमस्यास्तव वृत्तिः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55