Book Title: Bhavarivaran padpurti Stotra Sangraha
Author(s): Vinaysagar
Publisher: Hindi Jainagam Prakashak Samiti
View full book text
________________
(२३) रोगा हेला क्रीडा, एता प्रस्थति-निराकरोतीति.महेलाः, महेलाप्रामवत् हेलया अस्थतीति वा । पुनः कीरशः महती ईडा स्तुति महेडा, महा:-उत्सवास्तेषां इला-भूमिः स्थानं महेलामहेलाः डलयोरैक्यान्महेलाः, यथोक्तम्-यमकश्लेषचित्रेषु, बवयोर्डलयोनमित् । नानुस्वारविसर्गौ तु, चित्रभंगाय संमतौ॥१॥ सितं विध्वस्त पारअरिसमूहो येन स तदामंत्रणं हे सितार !। पुनः कीदृशः? असिःखङ्गःतारा-कनीनिका तद्वदसितःश्यामः असिता रासितस्तदामंत्रणं हे असितारासित !, आरा-शस्त्री असि:कृपाणस्तारं-रूप्यम् एतानि अवधीरयति-अवगणयतीति आरासितारावधीरस्तदामन्त्रणं, हे आरासितारावधीर ! अवेतियोजितम् , पुनः कीहक् ? धीरेषु अवधिः-सीमा धीरावधिः। पुनः कीदृशेन? रावण-ध्वनिना धियं-बुद्धिं राति-वदाति रावधीराः 'विप् प्रत्ययः' यमकत्वाद्विसर्गादुष्टता, कचित् रुद्रटालकारादौ तथादर्शनात् ॥१॥ गमाभा, गमैः-सहशपाठेराभान्तीति गमाभाः आगमा:- सिद्धान्ता यस्य स गमाभागमस्तदामंत्रणं-हे गमाभागम! आभाया आगमेनाभातीति आभागमामः, भा-समन्तात् भागो-भागधेयं तस्य मा-लक्ष्मीस्तया मातीति वा,न गच्छतीत्यगा-नित्या मा-ज्ञानं तां भजतीति अगमाभाग्तशमन्त्रणं हे अगमाभाग, अभीरो-निर्भयः, गभीरो-गम्भीर:अगाःसास्तेषां मीः अगमीः,रोगभी रुजभयंरो अग्निः,एभ्यो ऽवतीति तदामन्त्रणं हे अगभीरोः !, यमकत्वात् कचिदनुस्वारादौष्ट्यम् । पुनः कीदृशः? गो:-स्वर्गलक्ष्मीःगवी तारातीति. गवीराः, गवि कामो, इ:-कामो रागः-अभिष्वङ्गस्तावेव वीरागौ-सुभटसप्यौ तौ विशेषेण ईरयति यः स तत्सम्बोधन हे इरागवीरागवीर ! । पुनः कीदृक् ? असून-प्राणान् दधतीति प्र. सुधा:-प्राणिनस्तेषु मां-लक्ष्मी सुष्ठु दधाति-पुष्णातीति असुधामासुधाः 'उभयत्र विप्प्रत्ययः' मा मां इति प्रायोजितम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55