Book Title: Bauddh Pramana Mimansa ki Jain Drushti se Samiksha
Author(s): Dharmchand Jain
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 418
________________ परिशिष्ट (द्वितीय अध्याय)- क चित्संवादात् प्रत्यक्षत्वेनैव मणिप्रभायां मणिदर्शनस्य दृष्टान्तत्वमयुक्तं, कादाचित्कार्थप्राप्तेरारेकादेरपि संभवात् प्रत्यक्षत्वप्रसक्तेः । अष्टसहस्त्री, पृ० २७७-७८ पादटिप्पण - १३१ न हि मिथ्याज्ञानस्य संवादनैकान्तः संभवति, विरोधात् । नन्वनुमानस्य संभवत्येवावस्तुविषयत्वेन मिथ्याज्ञानस्यापि सर्वदा संवादनं लिङ्गज्ञानवत् पारम्पर्येण वस्तुनि प्रतिबन्धात् । तदुक्तम्लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि । प्रतिबन्धात्तदाभासं शून्ययोरप्यवचनम् ॥ प्रमाणवार्तिक, २.८२ प्रमाणमविसंवादि ज्ञानमित्युपवर्ण्यते । कैश्चित् तत्राविसंवादो यद्याकांक्षानिवर्तनम् ॥ तदा स्वप्नादिविज्ञानं प्रमाणमनुषज्यते । ततः कस्यचिदर्थेषु परितोषस्य भावतः ॥ पादटिप्पण - १३३ तथा न लैङ्गिकं सर्वथैवाविसंवादकत्वात् । नहि तदालम्बनं भ्रान्तं प्राप्येऽपि वस्तुनि भ्रान्तत्वप्रसङ्गात् । प्राप्ये तस्याविसंवादकत्वे स्वालम्बनेप्यविसंवादकत्वम् । - अष्टसहस्त्री, पृ० २७८ पादटिप्पण- १३४ अर्थक्रियास्थितिः प्रोक्ता विमुक्तिः सा न तत्र चेत् । शाब्दादाविव तद्भावोऽस्त्वभिप्रायनिवेदनात् ॥ ३८७ - अष्टसहस्त्री, पृ० २७८ - तत्त्वार्थश्लोकवार्तिक, Jain Education International पादटिप्पण - १३५ अविसंवादकत्वमधुना विचार्यते तत्किं प्रदर्शितार्थप्राप्त्या उत प्राप्तियोग्यार्थोपदर्शकत्वेन आहोस्विदविचलितार्थविषयत्वेन भवान् ज्ञानस्य प्रामाण्यं कथयति । यदि प्रथमः कल्पः तदयुक्तम्, जलबुद्बुदादिमुमूर्षुपदार्थोत्पादितसंवेदनस्याप्रमाणतोत्पत्तेः प्राप्तिकाले तस्य ध्वस्तत्वात् । अथ द्वितीयः, तदप्यचारु,प्राप्त्ययोग्यदेशस्थितप्रहनक्षत्रादिगोचरज्ञानस्याप्रामाण्यप्रसक्तेः, अनुचितदेशा.वस्थानेनैव प्राप्त्यनर्हत्वात्तेषाम् । अथ तृतीयः पक्षः, तत्राप्यविचलितविषयतां कथमवैषि । ज्ञानान्तरेण तद्विषयनिराकरणाभावादिति चेत्, एतदेवास्माभिरुदितं किं भवतः परुषमाभाति । - सिद्धर्विगणि, न्यायावतारविवृति, १, पृ० ३७ For Private & Personal Use Only १.१०.५९-६१ पादटिप्पण - १३७ सौगतैस्तु " प्रमाणमविसंवादिज्ञानम्” इति वचनात् अविसंवादकत्वं प्रमाणलक्षणमुक्तम् । www.jainelibrary.org

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482