Book Title: Bauddh Pramana Mimansa ki Jain Drushti se Samiksha
Author(s): Dharmchand Jain
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 430
________________ परिशिष्ट (तृतीय अध्याय)- ख अभिलापवती वित्तिस्तद्योग्या वापि सा यत: । अस्पष्टा प्रतीति: कल्पना, निश्चितिर्वा कल्पना इति परिस्फुटं कल्पनालक्षणमनुक्त्वा अभिलापवती प्रतीति : कल्पनेत्यादि तल्लक्षणमाचक्षाणो न प्रेक्षावान् ग्रंथगौरवापरिहारात् । - तत्त्वार्थश्लोकवार्तिक, १.१२.८-९ एवं वृत्ति पृ. १८० पादटिप्पण - २५१ तत्राद्यकल्पनापोढे प्रत्यक्षे सिद्धसाधनम् । स्पष्टे तस्मिन्नवैशद्यव्यवच्छेदस्य साधनात् ॥ अस्पष्टप्रतिभासाया : प्रतीतेरनपोहने । प्रत्यक्षस्यानुमानादेर्भेद : केनावबुध्यते ॥ - तत्त्वार्थश्लोकवार्तिक, १.१२.१०-११ पादटिप्पण - २५२ स्वार्थव्यवसितिस्तु स्यात्कल्पना यदि संमता । तदा लक्षणमेतत्स्यादसंभाव्येव सर्वथा ॥ तादृशकल्पनापोढस्य कदाचिदसंभवात् व्यवसायात्मकमानसप्रत्यक्षोपगमविरोधश्च । -तत्त्वार्थश्लोकवार्तिक, १.१२.१२ एवं वृत्ति, पृ. १८३ पादटिप्पण - २५३ (१) संहृत्य सर्वतश्चित्तं स्तिमितेनान्तरात्मना । स्थितोऽपि चक्षुषा रूपं स्वं च स्पष्टं व्यवस्यति ॥ ततो न प्रत्यक्षं कल्पनापोढं प्रत्यक्षत एव सिध्यति, नाप्यनुमानात् । तथाहि ३९९ पुनर्विकल्पयन्किञ्चिदासीन्मे स्वार्थनिश्चयः । दृगित्येव बुध्येत प्रागिन्द्रियगतावपि ॥ ततोऽन्यथा स्मृति र्न स्यात्क्षणिकत्वादिवत् पुनः । अभ्यासादिविशेषस्तु नान्य: स्वार्थविनिश्चयात् ॥ तदुक्तम् - तत्त्वार्थश्लोकवार्तिक, १.१२.१३-१५ (२) ननु चार्थदर्शनस्य निश्चयात्मकत्वे साध्ये प्रत्यक्षविरोध : संहृतसकलविकल्पदशायां रूपादिदर्शनस्यानिश्चयात्मकस्यानुभवात् । संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥ प्रमाणवार्तिक, २.१२४ तथानुमानविरोधोऽपि व्युत्थितचित्तावस्थायामिन्द्रियादर्थगतौ कल्पनानुपलब्धे: । तत्र कल्प Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482