Book Title: Bauddh Pramana Mimansa ki Jain Drushti se Samiksha
Author(s): Dharmchand Jain
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 437
________________ बौद्ध प्रमाण-मीमांसा की जैनदृष्टि से समीक्षा च विशदाविशदरूपतयावभासमानयोर्दृश्यस्मर्यमाणयोः सद्भावात् कथं न भेद : ? - न हि दृश्यमानस्मर्यमाणयोरभेदसिद्धि : दृश्यमाने स्मृते : स्मर्यमाणे च दृशोऽनवतारात् । - तत्त्वबोधविधायिनी, पृ. ४९४-४९६ ४० ६ पादटिप्पण - २८२ तन्न जातिर्दर्शने कल्पनाज्ञाने वा बहिराकारमाबिभ्रती स्वेन वपुषां प्रतिभाति कल्पनाबुद्धावपप्यविशदाकारव्यक्तिरूपमन्तः शब्दोल्लेखं वापहाय वर्णसंस्थानव्यतिरिक्तजातिस्वरूपानवभासनात् । तन्नाप्रतीयमाना जातिः सती । एवं गुणक्रियादीनामप्यप्रतिभासनादसत्त्वमिति न तद्विशिष्टार्थग्राह्यध्यक्षं सविकल्पकतामनुभवति । - तत्त्वबोधविधायिनी, पृ. ४९७ पादटिप्पण - २८३ अथ निर्विकल्पकत्वेऽध्यक्षेण शुद्धवस्तुप्रहणात् कथं ततो व्यवहृतिः सा हि हेयोपादेययोर्दुः खसुखसाधनत्वनिश्चये हानोपादानार्था दृष्टा, न च निर्विकल्पकमध्यक्षं तन्निश्चयरूपम्, असदेतत्; यतो यद्यपि सविकल्पकमध्यक्षं तथापि कथं तदर्थिनां तत्र ततः प्रवृत्ति : ? न हि निश्चयमात्रात् फलार्थिनः प्रवर्तन्ते अपितु तज्जननयोग्यतावसायात्, सा चासन्निहितफलानिश्चये न निश्चेतुं शक्या । न च परोक्षं सुखसाधनत्वं निश्चिन्वती मतिरध्यक्षतामनुभवति अनुमितेरध्यक्षताप्रसक्तेः परोक्षनिश्चयरूपताया अविशेषात् । न च निश्चयात्मकेनाध्यक्षेण वस्तु निश्चीयते तत्प्रतिबद्धा च प्रागर्थक्रियोपलब्धा ततः पुरस्थार्थावसायात् तत्र स्मृति: प्रादुर्भवन्ती तत्राभिलाषजननात् प्रवृत्तिमुपजनयति निर्विकल्पकेऽप्यस्य समानत्वात् । अथ वस्तुस्वरूपप्रतिभासं दर्शनमर्थक्रियासम्बन्धानुभवान्न प्रवृत्तिमुपरचयितुं क्षमम् तत्सम्बन्धानुभवे वा सविकल्पकं तद् भवेत् । न चाप्रवर्तकस्य प्रामाण्यम् - “प्रामाण्यं व्यवहारेण” इत्यत्र व्यावहारिकस्य चैतत् प्रमाणस्य लक्षणमुक्तम् इत्यभिधानात्, असदेतत् ; यतो न दर्शनं केवलं प्रमाणं क्षणिकत्वादावपि तस्य भावात्, किन्तु अभ्यासपाटवादिसव्यपेक्षं यत्रांशे विधिप्रतिषेधविकल्पद्वयं जनयत् पुरुषं प्रवर्तयति तत्रास्य प्रामाण्यमिति निश्चयापेक्षस्य प्रत्यक्षस्य व्यवहारसाधकत्वान्न प्रामाण्यक्षतिः ; नन्वेमपि यदि निश्चये सति प्रवृत्तिस्तदभावे च नेत्यभ्युपगमस्तर्हिप्रवृत्तिकरणान्निश्चय एव प्रमाणं भवेत्, न च दर्शनगृहीतं नीलं निश्चिन्वन्नुपजायमानो विकल्पो गृहीतप्राहितया अप्रमाणम्, यतोऽर्थक्रियासम्बन्धितामुल्लिखन्ती दर्शनावगतस्यार्थस्य कल्पना प्रवृत्तिमारचयति । सर्वत्र च कल्पनेव प्रवृत्तिं विरचयति दर्शनाभावेऽप्यनुमानात् प्रवृत्तिदर्शनाद् दर्शनसद्भावेऽपि क्षणिकादौ व्यवसायाभावात् प्रवृत्तेरभावाद् व्यवहारमुपरचयन्ती मति: प्रमाणमिति न निर्विकल्पिका सा प्रमाणं किन्तु विकल्पिकैव । - तत्त्वबोधविधायिनी, पृ. ४९७-९८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482