________________
बौद्ध प्रमाण-मीमांसा की जैनदृष्टि से समीक्षा
च विशदाविशदरूपतयावभासमानयोर्दृश्यस्मर्यमाणयोः सद्भावात् कथं न भेद : ? - न हि दृश्यमानस्मर्यमाणयोरभेदसिद्धि : दृश्यमाने स्मृते : स्मर्यमाणे च दृशोऽनवतारात् । - तत्त्वबोधविधायिनी, पृ. ४९४-४९६
४० ६
पादटिप्पण - २८२
तन्न जातिर्दर्शने कल्पनाज्ञाने वा बहिराकारमाबिभ्रती स्वेन वपुषां प्रतिभाति कल्पनाबुद्धावपप्यविशदाकारव्यक्तिरूपमन्तः शब्दोल्लेखं वापहाय वर्णसंस्थानव्यतिरिक्तजातिस्वरूपानवभासनात् । तन्नाप्रतीयमाना जातिः सती । एवं गुणक्रियादीनामप्यप्रतिभासनादसत्त्वमिति न तद्विशिष्टार्थग्राह्यध्यक्षं सविकल्पकतामनुभवति । - तत्त्वबोधविधायिनी, पृ. ४९७ पादटिप्पण - २८३
अथ निर्विकल्पकत्वेऽध्यक्षेण शुद्धवस्तुप्रहणात् कथं ततो व्यवहृतिः सा हि हेयोपादेययोर्दुः खसुखसाधनत्वनिश्चये हानोपादानार्था दृष्टा, न च निर्विकल्पकमध्यक्षं तन्निश्चयरूपम्, असदेतत्; यतो यद्यपि सविकल्पकमध्यक्षं तथापि कथं तदर्थिनां तत्र ततः प्रवृत्ति : ? न हि निश्चयमात्रात् फलार्थिनः प्रवर्तन्ते अपितु तज्जननयोग्यतावसायात्, सा चासन्निहितफलानिश्चये न निश्चेतुं शक्या । न च परोक्षं सुखसाधनत्वं निश्चिन्वती मतिरध्यक्षतामनुभवति अनुमितेरध्यक्षताप्रसक्तेः परोक्षनिश्चयरूपताया अविशेषात् । न च निश्चयात्मकेनाध्यक्षेण वस्तु निश्चीयते तत्प्रतिबद्धा च प्रागर्थक्रियोपलब्धा ततः पुरस्थार्थावसायात् तत्र स्मृति: प्रादुर्भवन्ती तत्राभिलाषजननात् प्रवृत्तिमुपजनयति निर्विकल्पकेऽप्यस्य समानत्वात् । अथ वस्तुस्वरूपप्रतिभासं दर्शनमर्थक्रियासम्बन्धानुभवान्न प्रवृत्तिमुपरचयितुं क्षमम् तत्सम्बन्धानुभवे वा सविकल्पकं तद् भवेत् । न चाप्रवर्तकस्य प्रामाण्यम् - “प्रामाण्यं व्यवहारेण” इत्यत्र व्यावहारिकस्य चैतत् प्रमाणस्य लक्षणमुक्तम् इत्यभिधानात्, असदेतत् ; यतो न दर्शनं केवलं प्रमाणं क्षणिकत्वादावपि तस्य भावात्, किन्तु अभ्यासपाटवादिसव्यपेक्षं यत्रांशे विधिप्रतिषेधविकल्पद्वयं जनयत् पुरुषं प्रवर्तयति तत्रास्य प्रामाण्यमिति निश्चयापेक्षस्य प्रत्यक्षस्य व्यवहारसाधकत्वान्न प्रामाण्यक्षतिः ; नन्वेमपि यदि निश्चये सति प्रवृत्तिस्तदभावे च नेत्यभ्युपगमस्तर्हिप्रवृत्तिकरणान्निश्चय एव प्रमाणं भवेत्, न च दर्शनगृहीतं नीलं निश्चिन्वन्नुपजायमानो विकल्पो गृहीतप्राहितया अप्रमाणम्, यतोऽर्थक्रियासम्बन्धितामुल्लिखन्ती दर्शनावगतस्यार्थस्य कल्पना प्रवृत्तिमारचयति । सर्वत्र च कल्पनेव प्रवृत्तिं विरचयति दर्शनाभावेऽप्यनुमानात् प्रवृत्तिदर्शनाद् दर्शनसद्भावेऽपि क्षणिकादौ व्यवसायाभावात् प्रवृत्तेरभावाद् व्यवहारमुपरचयन्ती मति: प्रमाणमिति न निर्विकल्पिका सा प्रमाणं किन्तु विकल्पिकैव ।
- तत्त्वबोधविधायिनी, पृ. ४९७-९८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org