________________
परिशिष्ट (तृतीय अध्याय)-ख
४०५
स्थितेः । तथाहि-अविशिष्टेऽपि दण्डपुरुषसंयोगे कश्चिद् दण्डविशिष्टतया पुरुषं 'दण्डी' इति प्रतिपद्यते अपरस्तु तत्रैव पुरुषविशिष्टतया ‘दण्डोऽस्य' इति प्रतिपद्यते । असंकेतितविशेषणविशेष्यभावस्तु दण्ड -पुरुषो 'इति स्वतन्त्र द्वयमधिगच्छति वास्तवे तु तस्मिन् योग्यदेशस्थप्रतिपतॄणां दण्डपुरुषरूपयोरिव तुल्याकारतयाऽवभासो भवेत् न चैवम् । तेन दण्डपुरुषस्वरूपमेव स्वतन्त्रमध्यक्षावसेयम् विशेषणविशेष्यभावस्तु कल्पनाविरचित एव ।.... विशेषणयोजना तु स्मरणादुपजायमाना अपास्ताक्षार्थसन्निधिर्मानसी ।
-तत्वबोधविधायिनी, पृ.४९३-९४ पादटिप्पण -२८१ ___ ननु यदि न पुरस्थितार्थग्राही विकल्प :कथं ततस्तत्र प्रवृत्तिर्भवेत् ? यदेव विशेषणादिकं प्राक् तेनानुभूतं तत्रैव तत : प्रवृत्तिर्भवेत् न हि स्वात्मानमनारूढेऽर्थे प्रवृत्तिविधायि विज्ञानमुपलब्धम् अन्यथा शुक्लमर्थमवतरन्ती संवित्रीलार्थे प्रवर्तिका भवेत् । न च निर्विकल्पकमेव संवेदनं वर्तमानेऽर्थे प्रवृत्तिविधायि,विकल्पमन्तरेणापि सर्वत्र प्रवृत्तिप्रसक्ते : । न च सुखसाधनत्वनिश्चयमन्तरेण पुरः प्रकाशनमात्रेण कश्चित् प्रवर्तत इति विकल्प एव पुरोव्यवस्थितार्थग्राही प्रवर्तकत्वात् अक्षानुसारितया च स एवाध्यक्षमिति युक्तं पूर्वदृष्टनामादिविशेषणग्राही निश्चय इति,एतदप्यसङ्ग तम्,धूमप्राह्यध्यक्षव्यतिरिक्तास्पष्टावभासाग्न्यनुमानाकारस्येव विशददर्शनभृतोऽर्थाकाराद् व्यतिरिक्तविकल्पमत्युल्लिख्यमानाऽस्पष्टाकारस्य तदाऽननुभवात् ।---
यतो यदि नाम पुरोवर्तिनमर्थ विकल्पमतिरुद्योतयितुं प्रभवति तथापि न तत्र प्रवृत्तिः प्रवृत्तिविरचनाचतुरार्थक्रियासमर्थरूपानवभासनात् तदवभासने ह्यर्थक्रियार्थिनां प्रवृत्तिर्युक्ता। न चार्थक्रियासम्बन्धं वर्तमानसमयसम्बन्धिन्यर्थे ताः प्रदर्शयितुं समर्थाः तदानीं तस्या असन्निधानात्। असन्निधौ च न तत्र सामर्थ्यावगतिः पदार्थस्वरूपमात्रावसायात् । न च तत्स्वरूपमात्रावसायादेव सामर्थ्यावगतिः अतिप्रसङ्गात् । ततः पुरोवर्तिनि प्रवर्तमानोऽपि न विकल्पकः प्रवर्तकः। -
पूर्वदर्शनमनुस्मरन्नेव पूर्वदृष्टतां व्यवहारी तत्राध्यारोपयति विस्मरणे तदनध्यवसायात् । यच्च स्मृतिरध्यवस्यति स्वरूपं न तदर्शनपथोपयुक्तम् आकारभेदात् । न च तद्दर्शनस्मरणे एकं विषयं बिभृतः 'पूर्वदृष्टं पश्यामि' इत्यध्यवसायात् । यतः किं स्मर्यमाणं दृश्यमानतया रूपं प्रतीयते, आहोस्विद् दृश्यमानं स्मर्यमाणतयेति विकल्पद्वयम् । तत्र यद्याद्यः पक्षस्तथा सति स्मर्यमाणं परिस्फुटतया रूपमामातीति कथं तस्य परोक्षता? अथ द्वितीयस्तत्रापि दृश्यमानं स्मर्यमाणेन रूपेणावभातीति सर्व परोक्षं भवेदिति न काचिदध्यक्षमतिः सत्यार्था स्यात् । अतोऽक्षधीवर्तमानमेव रूपं प्रत्येति स्मृतिरपि तदसंस्पर्शि परोक्ष रूपमिति न तयोरैक्यम्प्रतिभासभेदस्य सर्वत्र भेदकत्वात् तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org