________________
४०४
बौद्ध प्रमाण-मीमांसा की जैनदृष्टि से समीक्षा
ज्ञाने प्रतिभासमानं विशेषणभावं प्रतिपद्यते सर्वत्र तस्य तद्भावापत्ते : ---
यदि च वाक्संसृष्टस्यैवार्थस्य ग्रहणं तदाऽगृहीतसंकेतस्य बालकस्य तद्ग्रहणं न भवेत् । अथ तस्यापि 'किम्' इति वागुल्लेखोऽस्तीति तदनुषक्ततद्ग्रहणं सविकल्पकं नैतद् युक्तम् ; तस्य किमपि इति सामान्यस्यैव ग्रहणं भवेन्न विशेषस्येति न विशदावभास्यर्थसंवेदनसंभवः ।यदा चाश्वं विकल्पयतो गोदर्शनं परिणमति तदा तद्वागपरिच्छेदात् कथमवबोधस्य शाश्वती वाग्रूपता ? न हि तदा गोशब्दोल्लेखस्तदवबोधस्य संभवति तत्संवेदनाभावात् युगपद्विकल्पद्वयानुत्पत्तेश्च।
ततोऽध्यक्षमर्थसाक्षात्करणान्न वाग्योजनामुपस्पृशतीति निराकृतम् “वाग्रूपता चेद् व्युत्क्रामेत्” इत्यादि लोचनाद्यध्यक्षे वाक्संस्पर्शायोगात् ,यत :श्रोत्रग्राह्यां वैश्वरी वाचं न तावन्नयनजसंवेदनमुपस्पृशति तस्यास्तदविषयत्वात् ।- तत्त्वबोधविधायिनी, द्वितीयकाण्ड,पृ. ४८९-९१ पादटिप्पण -२७९
स्यादेतत् यद्यपि वाचो नयनजप्रतिपत्त्यविषयत्वान्न तद्विशिष्टार्थदर्शनमध्यक्षं तथापि द्रव्यादेर्नयनादिविषयत्वात् तद्विशिष्टार्थाध्यक्षप्रतिपत्ति : सविकल्पिका भविष्यति । तथाहि-नियतदेशादितया वस्तु परिदृश्यमानं व्यवहारोपयोगि अन्यथा तदसंभवाद् देशादिसंसर्गरहितस्य च तस्य कदाचिदप्यननुभवात् । यच्च देशादिविशिष्टतया नामोल्लेखाभावेऽपि वस्तु संगृह्णाति तत् सविकल्पकम् 'विशेषणविशेष्यभावेन हि प्रतीति : कल्पना' देशादयश्च नीलादिवद् तदवच्छेदका दर्शने प्रतिभान्तीति न तत्र शब्दसंयोजनापक्षभावी दोषः । - तत्त्वबोधविधायिनी, पृ.४९३ पादटिप्पण - २८०
एतदप्यसत् , यतोऽध्यक्षं पुरोवर्ति नीलादिकमवलोकयितुं समर्थम् न तदवष्टब्धं भूतलम्, तदनवभासे च कथं तद्विशिष्टमर्थं तदवगन्तुं प्रभुः यदपि तदनवष्टब्धं तत्र प्रतिभाति तदपि न तद्विशेषणमिति शुद्धस्यैव सकलस्य प्रतिभासान्न विशेषणविशेष्यभावग्रहणम् । तथाहि-दर्शने रूपमालोकश्च स्वस्वरूपव्यवस्थितं द्वितयमाभाति न तद्वयतिरिक्तं कालदिगादिकमिति कथमप्रतिभासमानं तद्विशेषणं भवति सर्वत्र तद्भावप्रसक्तेः तेन “देशादिभिर्विशिष्टस्य सर्वस्यार्थस्य संवेदनम् इति निरस्तम् विशेषणभूतस्य कस्यचिदप्रतिभासनात् ।... किञ्च, समानकालयोर्वा भावयोर्विशेषणविशेष्यभावम्,भिन्नकालयोर्वा अक्षबुद्धिरवभासयति ? न तावद् भिन्नकालयो : तयोयुगपत् तत्राप्रतिभासनात् यदा हि विशेषणं स्वादिकं पूर्वमवभाति न तदा स्वाम्यादिकं विशेष्यम् यदापि चोत्तरकालं तदवभाति न तदा स्वादिकम् असन्निधानादिति न तद्विशिष्टतयाऽध्यक्षेण तस्य ग्रहणम् । ....नापि तुल्यकालयो वयोर्विशेषणविशेष्यभावमध्यक्षमधिगन्तुं समर्थम् तस्यानव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org