________________
परिशिष्ट (तृतीय अध्याय)- ख
।
तस्मिंस्तदवगमः इति । नापि तद्विकल्पनान्तरात्, तत्राप्येवं प्रसङ्गादव्यवस्थितिदोषाच्च । ततो विकल्पबलादेव विकल्पानां वितथार्थत्वं प्रत्यक्षत्वञ्च व्यवस्थापयतां न सर्वथा वितथार्थत्वमभ्युपगन्तव्यम्। तथा च सिद्धं नीलादिविकल्पस्यापि सत्यार्थत्वं निरुपद्रवत्वादिति तस्यैव तत्र प्रामाण्यं निरपेक्षतया तद्व्यवसायं प्रति साधकतमत्वात्, अविसंवादनियमाच्च, न निर्विकल्पस्य विपर्ययादिति प्रत्यक्षाभासमेव तत् न प्रत्यक्षम् । - न्यायविनिश्चयविवरण, भाग-१ पृ० ५२४ पादटिप्पण - २७७
अत्राह वैयाकरणः न वाक्संस्पर्शरहिता काचित् प्रतिपत्तिरस्ति शब्दानुविद्धायास्तस्याः प्रतिभासनात् । यदि तु संस्पर्शविकला साऽभ्युपगम्येत प्रकाशरूपतापि तस्याः हीयेत वाग्रूपता हि शाश्वती प्रत्यवमर्शिनी च तदभावे न तस्याः किञ्चिदपरं रूपमवशिष्यते । तदुक्तम्
I
वाग्रूपता चेद् व्युत्क्रामेदवबोधस्य शाश्वती ।
प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ वाक्यपदीय, प्रथमकाण्ड १ . १२४ न च निरस्तोल्लेखं स्वसंवेदनं व्यवहारविरचनचतुरमिति सविकल्पमभ्युगन्तव्यम् । - तत्त्वबोधविधायिनी (संमतितर्कटीका), पृ. ४८९-९१
४० ३
पादटिप्पण - २७८
असदेतत् यतोऽध्यक्षं पुरः सन्निहितमेव भावात्मानमवभासयति तत्रैवाक्षवृत्तेः । वाग्रूपता च न पुरः सन्निहितेति न सा तत्र प्रतिभाति । न च व्यापितया पदार्थात्मतया वा अर्थदेशे सन्निहिता वागिति तद्दर्शने साप्यवभाति, वाचामर्थदेशे सन्निधेरयोगात् । तथाहि यदाऽक्षान्वये संवेदने पुरस्थो नीलादिराभाति न तदा तद्देश एव शब्दात्मा वक्तृमुखदेशस्य तस्यावभासनात् । न चान्यदेशतयोपलभ्यमानोऽन्यदेशोऽभ्युपगन्तुं युक्तः नीलादेरपि तथाभावप्रसक्तेः । अतो वाग्विविक्तस्य नीलादेरवभासनान्नार्थदेशे वाक्सन्निधिरिति न तत्संस्पर्शवत्यक्षमतिः । न च पदार्थात्मता वाचो युक्ता, तत्त्वेनाप्रतिभासनात् । स्तम्भादिर्हि शब्दाकारविविक्तः पुरः प्रतिभाति शब्दोऽप्यर्थविविक्तस्वरूपेण श्रोत्रज्ञानेऽवभातीति न तयोरैक्यं प्रतिभासभेदतो भेदात् । -- शब्दात्मकेऽपि पदार्थेऽभ्युपगम्यमाने श्रुतिरेव शब्दपरिणतिमधिगच्छति लोचनं च रूपविवर्त पर्येतीत्यभ्युपगन्तव्यम् अन्यथैकमेवाक्षं विषयपञ्चकं विषयीकरोतीति तत्राप्यक्षपञ्चककल्पना विफलतामनुभवेत् ततः सकलमक्षवेदनं वाचकविकलं स्वविषयमेवावलोकयतीति निर्विकल्पकम् |---
न च यद्यपि वाग् दृशि न प्रतिभाति तथापि स्मृतौ प्रतिभातीति विशेषणमर्थस्य भिन्नज्ञानग्राह्यस्यापि विशेषणत्वोपपत्तेरिति वक्तुं शक्यम् संविदन्तरप्रतीतस्य स्वातन्त्र्येण प्रतिभासनात् तदनन्तरप्रतीयमानविशेषणत्वानुपपत्तिः । यतो नैककालमनेककालं वा शब्दस्वरूपं स्वतन्त्रतया स्वग्राहिणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org