________________
४०२
बौद्ध प्रमाण-मीमांसा की जैनदष्टि से समीक्षा
भाविनि तु तस्य तत्त्वं व्यवहर्तृजनाभिप्रायादेव न तत्त्वत इति चेत् ; नन्वेवं क्षणभङ्गादावपि तस्यैव प्रामाण्यात् किमर्था तत्र प्रमाणान्तरप्रवृत्तिः? समारोपव्यवच्छेदस्य विहितोत्तरत्वात् । निश्चयार्थे चेत् नीलादावपि किन्न तत्प्रवृत्तिः? प्रत्यक्षादेव तस्य निश्चयादितिचेत्; कथमेतत् तस्यानिश्चयरूपत्वात् ? निश्चयहेतुत्वादिति चेत् ;न,निर्विकल्पकत्वात् । निर्विकल्पकं हिं प्रत्यक्षं कथं निश्चयहेतुः अर्थवत् ? निश्चयसंस्कारादेव विनिश्चयः प्रत्यक्षस्य तद्धेतुत्वं तत्संस्कारप्रबोधादिति चेत् ; न तत्प्रबोधस्याप्यर्थादेवोपपत्तेः।
तन्न प्रत्यक्षान्निश्चयः । भवनपि कथं नीलादावेव न क्षणक्षयादावपि यतस्तत्रैव प्रमाणान्तरप्रवृत्तिः। दर्शनपाटवादेरुभयत्राविशेषादिति निरूपितत्वात् । अपेक्षणे च निश्चयस्य तस्यैव मुख्यं प्रामाण्यं भवेत् स्वार्थव्यवसायं; प्रत्यनपेक्षत्वेन साधकतमत्वात्,न प्रत्यक्षस्य विपर्ययात् । अविसंवादस्यापि तदायत्तत्वात्, सत्येव हि तस्मिन्नीलादौ तदवलोकनात् असति च क्षणक्षयादौ सत्यपि प्रत्यक्षे विपर्ययात् । - न्यायविनिश्चयविवरण, भाग-१,पृ. ५२०-२१ पादटिप्पण - २७२
न हि तेषामेवावधारितो विसंवादो निर्विकल्पस्य,विरोधात् । न च तमन्तरेण प्रामाण्यम्, तस्य तेन व्याप्तत्वात् अन्यथाऽतिप्रसङ्गात् । न चाप्रामाण्यस्य प्रत्यक्षत्वम्, इत्युपपन्नम् अविकल्पकमित्यादि । न च तेषामप्रामाण्यम्; अविसंवादस्य तत्रावश्यम्भावात् । द्विचन्द्रादिचेतसां तु व्यवसायत्वमेव नास्ति; विधूतबाधस्यैवावसायस्य व्यवसायोपपत्तेः। कथं पुनः व्यवसायरूपत्वे तच्चेतसामविकल्पकत्वम्, विकल्पविशेषस्यैव व्यवसायत्वात् । -न्यायविनिश्चयविवरण, भाग१,पृ. ५२१ पादटिप्पण - २७३ ___ न ह्यथार्थादनुमानविकल्पात्तदवस्थापनमुपपन्नम्, अस्ति चैतत्परस्य “प्रत्यक्षं निर्विकल्पकम् अर्थसामर्थ्यादुत्पत्तेरुत्तरार्थक्षणवत् इत्यादेः,न सन्ति प्रत्यक्षे कल्पनाः,उपलब्धिक्षणप्राप्तानामनुपलम्भात्, भूतले घटवत्" इत्यादेश्च तद्व्यवस्थापनयोगस्य दर्शनात् ।
-न्यायविनिश्चयविवरण,भाग-१, पृ० ५२४ पादटिप्पण -२७५
व्यवस्थितमेव तत् स्वतोऽपि तस्य तत्त्वव्यवस्थितेः प्रत्यक्ष कल्पनापोढं प्रत्यक्षेणैव सिध्यति” इति वचनादिति चेत्,किमिदानीमनुमानेन? व्यामोहविच्छेद इति चेत्,सति व्यामोहे कथं व्यवस्थितत्वम् अतिप्रसंगात् । तन्न ततस्तदवगमः । नापि तद्विकल्पात्,तस्य तदवगमात्पूर्वं विकल्पान्तरवदप्रमाणत्वात् । तदवगमे प्रमाणत्वमिति चेत् न, परस्पराश्रयात् - तदवगमात्प्रामाण्यम् ,सति च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org