________________
परिशिष्ट (तृतीय अध्याय)-ख
४०१
पादटिप्पण - २५६
ततः प्रत्यक्षमास्थेयं मुख्यं वा देशतोपि वा। स्यान्निर्विकल्पकं सिद्धं युक्त्या स्यात्सविकल्पकम् । सर्वथा निर्विकल्पत्वे स्वार्थव्यवसितिः कुतः। सर्वथा सविकल्पत्वे तस्य स्याच्छब्दकल्पना ॥
-तत्वार्थश्लोकवार्तिक,१.१२.२६-२७ पादटिप्पण - २५७
सवितर्कविचारा हि पञ्चविज्ञानधातवः । इत्येवं स्वयमिष्टत्वान्नैकान्तेनाविकल्पकम्। विधूतकल्पनाजालं योगिप्रत्यक्षमेव चेत् सर्वथा लक्षणाव्याप्तिदोषः केनास्य वार्यते । तदपाये च बुद्धस्य न स्याद्धर्मोपदेशना ।
- तत्वार्थश्लोकवार्तिक, १.१२.२८-३२ पादटिप्पण - २६०
तदेतदविचारितरमणीयं ताथागतस्य; व्यवसायो हि दर्शनजन्यः । स किं दर्शनविषयस्योपदर्शकोऽनुपदर्शको वा इति विचार्यते । यद्यपदर्शक : तदा स एव तत्र प्रवर्तक :प्रापकश्च संवादकत्वात्, सम्यक्संवेदनवत् न तु तन्निमित्तं दर्शनम् सन्निकर्षादिवत् । अथानुपदर्शकः,कथं दर्शनं तज्जननात् स्वविषयोपदर्शकम, अतिप्रसंगात, संशयविपर्यासकारणस्यापि स्वविषयोपदर्शकत्वापत्तेः । दर्शनविषयसामान्याध्यवसायित्वाद्विकल्पस्य तज्जनकं दर्शनं स्वविषयोपदर्शकमिति च न चेतसि स्थापनीयम्, दर्शनविषयसामान्यस्यान्यापोहलक्षणस्यावस्तुत्वात्, तद्विषयव्यवसायजनकस्य वस्तूपदर्शकत्वविरोधात् ।-प्रमाणपरीक्षा,पृ.६ पादटिप्पण • २७०
प्रवर्तकस्य च प्रत्यक्षत्वमनुमतं भवतां प्राप्ये भाविनीति चेत् ; न तस्य तेनाप्रतिपत्तेः । अप्रतिपन्नेऽपि प्रत्यक्षत्वे अतिप्रसङ्गात् । दृश्यप्रतिपत्तिरेव तस्यापि प्रतिपत्तिस्तयोरेकत्वादिति चेत्; उच्यते
वस्तुतो यदि तद्भावः क्षणभङ्गि जगत्कथम्? संवृत्या यदि तन्न स्यात् प्रत्यक्षमविकल्पकम् ॥११८५ ॥
वादिराज, न्यायविनिश्चयविवरण, भाग-१,पृ. ५२० पादटिप्पण - २७१
भवतु वर्तमानविषयमेव प्रत्यक्षम्,न च तस्याप्रवर्तकत्वम्,उपलम्भपरितोषमात्रादेव तदुपपत्तेः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org