________________
४००
नासद्भावे पुनस्तत्स्मृतिप्रसङ्गः तदा विकल्पितकल्पनावत् । तदप्युक्तम् -
पुनर्विकल्पयन् किञ्चिदासीन्मे कल्पनेदृशी ।
इति वेत्ति पूर्वोक्तावस्थायामिन्द्रियाद्गतौ ॥ - प्रमाणवार्तिक, २.१२५ तदेतदपि धर्मकीर्तेरपरीक्षिताऽभिधानम् ; प्रत्यक्षतो निर्विकल्पकदर्शनस्याप्रसिद्धत्वात् । संहृतसकलविकल्पावस्था ह्यश्वं विकल्पयतो गोदर्शनावस्था । न च तदा गोदर्शनमव्यवसायात्मकम्, पुनः स्मरणाभावप्रसङ्गात्, तस्य संस्कारकारणत्वविरोधात्, क्षणिकत्वादिवत् । व्यवसायात्मन एव दर्शनात् । संस्कारस्य स्मरणस्य च संभवात् । अन्यतस्तदनुपपत्ते: । तदुक्तम् -
व्यवसायात्मनो दृष्टे : संस्कार : स्मृतिरेव वा ।
दृष्टे दृष्टसजातीये नान्यथा क्षणिकादिवत् ॥ - सिद्धिविनिश्चय - १.४
बौद्ध प्रमाण-मीमांसा की जैनदृष्टि से समीक्षा
पादटिप्पण - २५४
तदकल्पकमर्थस्य सामर्थ्येन समुद्भवात् । जात्याद्यात्मकभावस्य सामर्थ्येन समुद्भवम् । सविकल्पकमेव स्यात् प्रत्यक्षं स्फुटमजसा ॥ परमार्थेन विशदं सविकल्पकं प्रत्यक्षं न पुनरविकल्पकं वैशद्यारोपात् ।
यथावभासतो कल्पात् प्रत्यक्षात्प्रभवन्नपि । तत्पृष्ठतो विकल्प: स्यात् तथार्थाक्षाच्च स स्फुट: ॥
पादटिप्पण - २५५
- प्रमाणपरीक्षा, पृ. ८-९
-तत्त्वार्थश्लोकवार्तिक, १.१२.१६-१८
न चाभिलापवत्येव प्रतीति: कल्पना जात्यादिमत्प्रतीतेरपि तथात्वाविरोधात् । न च जात्यादिरूपत्वमर्थस्यासिद्धमञ्जसा । निर्बाधबोधविध्वस्तसमस्तारेकि तत्त्वतः ॥ १९ ॥
Jain Education International
स्वतो हि व्यवसायात्मप्रत्यक्षं सकलं मतम् । अभिधानाद्यपेक्षायामन्योन्याश्रयणात् तयोः ॥ २१ ॥
सति ह्यभिधानस्मरणादौ क्वचिद् व्यवसायः सति च व्यवसाये ह्यभिधानस्मरणादीति कथम
न्योन्याश्रयणं न स्यात् ।
संकेतस्मरणोपाया दृष्टसंकल्पनात्मिका ।
नैषा व्यवसितिः स्पष्टा ततो युक्ताक्षजन्मनि ॥ २० ॥ गत्वा सुदूरमप्येवमभिधानस्य निश्चये । स्वाभिलापानपेक्षस्य किमु नार्थस्य निश्चयः ॥ २३ ॥
-तत्त्वार्थश्लोकवार्तिक, १.१२.१९-२३
For Private & Personal Use Only
www.jainelibrary.org