________________
परिशिष्ट (तृतीय अध्याय)- ख
अभिलापवती वित्तिस्तद्योग्या वापि सा यत: ।
अस्पष्टा प्रतीति: कल्पना, निश्चितिर्वा कल्पना इति परिस्फुटं कल्पनालक्षणमनुक्त्वा अभिलापवती प्रतीति : कल्पनेत्यादि तल्लक्षणमाचक्षाणो न प्रेक्षावान् ग्रंथगौरवापरिहारात् । - तत्त्वार्थश्लोकवार्तिक, १.१२.८-९ एवं वृत्ति पृ. १८०
पादटिप्पण - २५१
तत्राद्यकल्पनापोढे प्रत्यक्षे सिद्धसाधनम् । स्पष्टे तस्मिन्नवैशद्यव्यवच्छेदस्य साधनात् ॥ अस्पष्टप्रतिभासाया : प्रतीतेरनपोहने । प्रत्यक्षस्यानुमानादेर्भेद : केनावबुध्यते ॥ - तत्त्वार्थश्लोकवार्तिक, १.१२.१०-११ पादटिप्पण - २५२
स्वार्थव्यवसितिस्तु स्यात्कल्पना यदि संमता । तदा लक्षणमेतत्स्यादसंभाव्येव सर्वथा ॥ तादृशकल्पनापोढस्य कदाचिदसंभवात् व्यवसायात्मकमानसप्रत्यक्षोपगमविरोधश्च । -तत्त्वार्थश्लोकवार्तिक, १.१२.१२ एवं वृत्ति, पृ. १८३
पादटिप्पण - २५३
(१) संहृत्य सर्वतश्चित्तं स्तिमितेनान्तरात्मना ।
स्थितोऽपि चक्षुषा रूपं स्वं च स्पष्टं व्यवस्यति ॥ ततो न प्रत्यक्षं कल्पनापोढं प्रत्यक्षत एव सिध्यति, नाप्यनुमानात् ।
तथाहि
३९९
पुनर्विकल्पयन्किञ्चिदासीन्मे स्वार्थनिश्चयः । दृगित्येव बुध्येत प्रागिन्द्रियगतावपि ॥ ततोऽन्यथा स्मृति र्न स्यात्क्षणिकत्वादिवत् पुनः । अभ्यासादिविशेषस्तु नान्य: स्वार्थविनिश्चयात् ॥
तदुक्तम्
- तत्त्वार्थश्लोकवार्तिक, १.१२.१३-१५
(२) ननु चार्थदर्शनस्य निश्चयात्मकत्वे साध्ये प्रत्यक्षविरोध : संहृतसकलविकल्पदशायां रूपादिदर्शनस्यानिश्चयात्मकस्यानुभवात् ।
संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना ।
स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥ प्रमाणवार्तिक, २.१२४ तथानुमानविरोधोऽपि व्युत्थितचित्तावस्थायामिन्द्रियादर्थगतौ कल्पनानुपलब्धे: । तत्र कल्प
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org