Book Title: Bauddh Pramana Mimansa ki Jain Drushti se Samiksha
Author(s): Dharmchand Jain
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 435
________________ ४०४ बौद्ध प्रमाण-मीमांसा की जैनदृष्टि से समीक्षा ज्ञाने प्रतिभासमानं विशेषणभावं प्रतिपद्यते सर्वत्र तस्य तद्भावापत्ते : --- यदि च वाक्संसृष्टस्यैवार्थस्य ग्रहणं तदाऽगृहीतसंकेतस्य बालकस्य तद्ग्रहणं न भवेत् । अथ तस्यापि 'किम्' इति वागुल्लेखोऽस्तीति तदनुषक्ततद्ग्रहणं सविकल्पकं नैतद् युक्तम् ; तस्य किमपि इति सामान्यस्यैव ग्रहणं भवेन्न विशेषस्येति न विशदावभास्यर्थसंवेदनसंभवः ।यदा चाश्वं विकल्पयतो गोदर्शनं परिणमति तदा तद्वागपरिच्छेदात् कथमवबोधस्य शाश्वती वाग्रूपता ? न हि तदा गोशब्दोल्लेखस्तदवबोधस्य संभवति तत्संवेदनाभावात् युगपद्विकल्पद्वयानुत्पत्तेश्च। ततोऽध्यक्षमर्थसाक्षात्करणान्न वाग्योजनामुपस्पृशतीति निराकृतम् “वाग्रूपता चेद् व्युत्क्रामेत्” इत्यादि लोचनाद्यध्यक्षे वाक्संस्पर्शायोगात् ,यत :श्रोत्रग्राह्यां वैश्वरी वाचं न तावन्नयनजसंवेदनमुपस्पृशति तस्यास्तदविषयत्वात् ।- तत्त्वबोधविधायिनी, द्वितीयकाण्ड,पृ. ४८९-९१ पादटिप्पण -२७९ स्यादेतत् यद्यपि वाचो नयनजप्रतिपत्त्यविषयत्वान्न तद्विशिष्टार्थदर्शनमध्यक्षं तथापि द्रव्यादेर्नयनादिविषयत्वात् तद्विशिष्टार्थाध्यक्षप्रतिपत्ति : सविकल्पिका भविष्यति । तथाहि-नियतदेशादितया वस्तु परिदृश्यमानं व्यवहारोपयोगि अन्यथा तदसंभवाद् देशादिसंसर्गरहितस्य च तस्य कदाचिदप्यननुभवात् । यच्च देशादिविशिष्टतया नामोल्लेखाभावेऽपि वस्तु संगृह्णाति तत् सविकल्पकम् 'विशेषणविशेष्यभावेन हि प्रतीति : कल्पना' देशादयश्च नीलादिवद् तदवच्छेदका दर्शने प्रतिभान्तीति न तत्र शब्दसंयोजनापक्षभावी दोषः । - तत्त्वबोधविधायिनी, पृ.४९३ पादटिप्पण - २८० एतदप्यसत् , यतोऽध्यक्षं पुरोवर्ति नीलादिकमवलोकयितुं समर्थम् न तदवष्टब्धं भूतलम्, तदनवभासे च कथं तद्विशिष्टमर्थं तदवगन्तुं प्रभुः यदपि तदनवष्टब्धं तत्र प्रतिभाति तदपि न तद्विशेषणमिति शुद्धस्यैव सकलस्य प्रतिभासान्न विशेषणविशेष्यभावग्रहणम् । तथाहि-दर्शने रूपमालोकश्च स्वस्वरूपव्यवस्थितं द्वितयमाभाति न तद्वयतिरिक्तं कालदिगादिकमिति कथमप्रतिभासमानं तद्विशेषणं भवति सर्वत्र तद्भावप्रसक्तेः तेन “देशादिभिर्विशिष्टस्य सर्वस्यार्थस्य संवेदनम् इति निरस्तम् विशेषणभूतस्य कस्यचिदप्रतिभासनात् ।... किञ्च, समानकालयोर्वा भावयोर्विशेषणविशेष्यभावम्,भिन्नकालयोर्वा अक्षबुद्धिरवभासयति ? न तावद् भिन्नकालयो : तयोयुगपत् तत्राप्रतिभासनात् यदा हि विशेषणं स्वादिकं पूर्वमवभाति न तदा स्वाम्यादिकं विशेष्यम् यदापि चोत्तरकालं तदवभाति न तदा स्वादिकम् असन्निधानादिति न तद्विशिष्टतयाऽध्यक्षेण तस्य ग्रहणम् । ....नापि तुल्यकालयो वयोर्विशेषणविशेष्यभावमध्यक्षमधिगन्तुं समर्थम् तस्यानव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482