Book Title: Bauddh Pramana Mimansa ki Jain Drushti se Samiksha
Author(s): Dharmchand Jain
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 433
________________ ४०२ बौद्ध प्रमाण-मीमांसा की जैनदष्टि से समीक्षा भाविनि तु तस्य तत्त्वं व्यवहर्तृजनाभिप्रायादेव न तत्त्वत इति चेत् ; नन्वेवं क्षणभङ्गादावपि तस्यैव प्रामाण्यात् किमर्था तत्र प्रमाणान्तरप्रवृत्तिः? समारोपव्यवच्छेदस्य विहितोत्तरत्वात् । निश्चयार्थे चेत् नीलादावपि किन्न तत्प्रवृत्तिः? प्रत्यक्षादेव तस्य निश्चयादितिचेत्; कथमेतत् तस्यानिश्चयरूपत्वात् ? निश्चयहेतुत्वादिति चेत् ;न,निर्विकल्पकत्वात् । निर्विकल्पकं हिं प्रत्यक्षं कथं निश्चयहेतुः अर्थवत् ? निश्चयसंस्कारादेव विनिश्चयः प्रत्यक्षस्य तद्धेतुत्वं तत्संस्कारप्रबोधादिति चेत् ; न तत्प्रबोधस्याप्यर्थादेवोपपत्तेः। तन्न प्रत्यक्षान्निश्चयः । भवनपि कथं नीलादावेव न क्षणक्षयादावपि यतस्तत्रैव प्रमाणान्तरप्रवृत्तिः। दर्शनपाटवादेरुभयत्राविशेषादिति निरूपितत्वात् । अपेक्षणे च निश्चयस्य तस्यैव मुख्यं प्रामाण्यं भवेत् स्वार्थव्यवसायं; प्रत्यनपेक्षत्वेन साधकतमत्वात्,न प्रत्यक्षस्य विपर्ययात् । अविसंवादस्यापि तदायत्तत्वात्, सत्येव हि तस्मिन्नीलादौ तदवलोकनात् असति च क्षणक्षयादौ सत्यपि प्रत्यक्षे विपर्ययात् । - न्यायविनिश्चयविवरण, भाग-१,पृ. ५२०-२१ पादटिप्पण - २७२ न हि तेषामेवावधारितो विसंवादो निर्विकल्पस्य,विरोधात् । न च तमन्तरेण प्रामाण्यम्, तस्य तेन व्याप्तत्वात् अन्यथाऽतिप्रसङ्गात् । न चाप्रामाण्यस्य प्रत्यक्षत्वम्, इत्युपपन्नम् अविकल्पकमित्यादि । न च तेषामप्रामाण्यम्; अविसंवादस्य तत्रावश्यम्भावात् । द्विचन्द्रादिचेतसां तु व्यवसायत्वमेव नास्ति; विधूतबाधस्यैवावसायस्य व्यवसायोपपत्तेः। कथं पुनः व्यवसायरूपत्वे तच्चेतसामविकल्पकत्वम्, विकल्पविशेषस्यैव व्यवसायत्वात् । -न्यायविनिश्चयविवरण, भाग१,पृ. ५२१ पादटिप्पण - २७३ ___ न ह्यथार्थादनुमानविकल्पात्तदवस्थापनमुपपन्नम्, अस्ति चैतत्परस्य “प्रत्यक्षं निर्विकल्पकम् अर्थसामर्थ्यादुत्पत्तेरुत्तरार्थक्षणवत् इत्यादेः,न सन्ति प्रत्यक्षे कल्पनाः,उपलब्धिक्षणप्राप्तानामनुपलम्भात्, भूतले घटवत्" इत्यादेश्च तद्व्यवस्थापनयोगस्य दर्शनात् । -न्यायविनिश्चयविवरण,भाग-१, पृ० ५२४ पादटिप्पण -२७५ व्यवस्थितमेव तत् स्वतोऽपि तस्य तत्त्वव्यवस्थितेः प्रत्यक्ष कल्पनापोढं प्रत्यक्षेणैव सिध्यति” इति वचनादिति चेत्,किमिदानीमनुमानेन? व्यामोहविच्छेद इति चेत्,सति व्यामोहे कथं व्यवस्थितत्वम् अतिप्रसंगात् । तन्न ततस्तदवगमः । नापि तद्विकल्पात्,तस्य तदवगमात्पूर्वं विकल्पान्तरवदप्रमाणत्वात् । तदवगमे प्रमाणत्वमिति चेत् न, परस्पराश्रयात् - तदवगमात्प्रामाण्यम् ,सति च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482