Book Title: Bauddh Pramana Mimansa ki Jain Drushti se Samiksha
Author(s): Dharmchand Jain
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 432
________________ परिशिष्ट (तृतीय अध्याय)-ख ४०१ पादटिप्पण - २५६ ततः प्रत्यक्षमास्थेयं मुख्यं वा देशतोपि वा। स्यान्निर्विकल्पकं सिद्धं युक्त्या स्यात्सविकल्पकम् । सर्वथा निर्विकल्पत्वे स्वार्थव्यवसितिः कुतः। सर्वथा सविकल्पत्वे तस्य स्याच्छब्दकल्पना ॥ -तत्वार्थश्लोकवार्तिक,१.१२.२६-२७ पादटिप्पण - २५७ सवितर्कविचारा हि पञ्चविज्ञानधातवः । इत्येवं स्वयमिष्टत्वान्नैकान्तेनाविकल्पकम्। विधूतकल्पनाजालं योगिप्रत्यक्षमेव चेत् सर्वथा लक्षणाव्याप्तिदोषः केनास्य वार्यते । तदपाये च बुद्धस्य न स्याद्धर्मोपदेशना । - तत्वार्थश्लोकवार्तिक, १.१२.२८-३२ पादटिप्पण - २६० तदेतदविचारितरमणीयं ताथागतस्य; व्यवसायो हि दर्शनजन्यः । स किं दर्शनविषयस्योपदर्शकोऽनुपदर्शको वा इति विचार्यते । यद्यपदर्शक : तदा स एव तत्र प्रवर्तक :प्रापकश्च संवादकत्वात्, सम्यक्संवेदनवत् न तु तन्निमित्तं दर्शनम् सन्निकर्षादिवत् । अथानुपदर्शकः,कथं दर्शनं तज्जननात् स्वविषयोपदर्शकम, अतिप्रसंगात, संशयविपर्यासकारणस्यापि स्वविषयोपदर्शकत्वापत्तेः । दर्शनविषयसामान्याध्यवसायित्वाद्विकल्पस्य तज्जनकं दर्शनं स्वविषयोपदर्शकमिति च न चेतसि स्थापनीयम्, दर्शनविषयसामान्यस्यान्यापोहलक्षणस्यावस्तुत्वात्, तद्विषयव्यवसायजनकस्य वस्तूपदर्शकत्वविरोधात् ।-प्रमाणपरीक्षा,पृ.६ पादटिप्पण • २७० प्रवर्तकस्य च प्रत्यक्षत्वमनुमतं भवतां प्राप्ये भाविनीति चेत् ; न तस्य तेनाप्रतिपत्तेः । अप्रतिपन्नेऽपि प्रत्यक्षत्वे अतिप्रसङ्गात् । दृश्यप्रतिपत्तिरेव तस्यापि प्रतिपत्तिस्तयोरेकत्वादिति चेत्; उच्यते वस्तुतो यदि तद्भावः क्षणभङ्गि जगत्कथम्? संवृत्या यदि तन्न स्यात् प्रत्यक्षमविकल्पकम् ॥११८५ ॥ वादिराज, न्यायविनिश्चयविवरण, भाग-१,पृ. ५२० पादटिप्पण - २७१ भवतु वर्तमानविषयमेव प्रत्यक्षम्,न च तस्याप्रवर्तकत्वम्,उपलम्भपरितोषमात्रादेव तदुपपत्तेः, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482