Book Title: Bauddh Pramana Mimansa ki Jain Drushti se Samiksha
Author(s): Dharmchand Jain
Publisher: Parshwanath Shodhpith Varanasi
View full book text ________________
परिशिष्ट (तृतीय अध्याय) - ख
पादटिप्पण - ३१९
नापि अर्थसन्निधिनिरपेक्षता विकल्पलक्षणं पुरोवर्तिन्यर्थे सत्येव अस्येदन्तया प्रवृत्तेः न हि ईदृशो विकल्पोऽसन्निहितेऽथें संभवति । अतश्च सन्निहितार्थलक्षणत्वेऽपि यदि अस्याऽप्रत्यक्षता, न किञ्चित् प्रत्यक्षं स्यात । —न्यायकुमुदचन्द्र, भाग-१, पृ० ५१
पादटिप्पण - ३२०
नापि अनक्षप्रभवता तल्लक्षणम्, अक्षान्वयव्यतिरेकानुविधायित्वतः अक्षप्रभवत्वस्यात्रैवावसायात्, न हि निर्विकल्पकम्, अक्षव्यापारानन्तरं कदाचिदप्युपलभ्यते । अर्थसाक्षात्कारिणश्चास्याऽक्षप्रभवत्वं भवति । न चाऽविकल्पस्य तत्साक्षात्कारित्वं संभवति, स्वरूपेणाप्यस्याप्रसिद्धत्वात् । यत् स्वरूपेणाप्रसिद्धं न तत् अर्थसाक्षात्कारि यथा वन्ध्यास्तनन्धयविज्ञानम्, स्वरूपेणाप्रसिद्धञ्च अविकल्पकत्वाभिमतं विज्ञानमिति ।
-न्यायकुमुदचन्द्र भाग - १ पृ० ५१
पादटिप्पण - ३२१
धर्मान्तरारोपोऽपि न तल्लक्षणम् ; विकल्पे हि कस्य धर्मान्तरमारोप्यते ? निर्विकल्पकस्य चेत्; किं तद् धर्मान्तरम् ? वैशद्यश्चेत्: 'वन्ध्यासुतसम्बन्धि तत् तत्रारोप्यते' इत्यपि किन्न स्यात् ? तस्य तद्धर्माधारतयाऽप्रसिद्धेः- - कदाचिदपि प्रसिद्धम्, इति अक्षव्यापारप्रभवं वैशद्याध्यासितं स्वार्थसाक्षात्कारि व्यवसायात्मकं प्रत्यक्षं प्रतिपत्तव्यम् । ततो भवत्परिकल्पितप्रत्यक्षलक्षणस्यानुपपत्तेः 'स्वसंवेदनेन्द्रिय' इत्यादिना तद्भेदोपवर्णनम् आकाशकुशेशयसौरभव्यावर्णनप्रख्यमित्युपे - क्षते । - न्यायकुमुदचन्द्र, भाग-१, पृ० ५१
पादटिप्पण - ३२४
अथ निश्चयः कल्पनोच्यते, सत्यमेतत्, तद्रहितत्वं तु प्रत्यक्षस्याऽसत्यम्, प्रमाणस्याऽनिश्चयात्मकत्वानुपपत्तेः, तथाहि प्रत्यक्षं स्वार्थव्यवसायात्मकं प्रमाणत्वाद् अनुमानवत् । यत्पुनः स्वयमनिश्चितस्वरूपम् अर्थनिश्चयात्मकञ्च न तत्प्रमाणम्, यथा पुरुषान्तरज्ञानं संशयादिज्ञानञ्च । निश्चयो हि संशयादिव्यवच्छेदेन अर्थस्वरूपावधारणम्, तद्रूपता च प्रमाणस्य प्रमाणशब्दस्य निरुक्त्यैवाऽवसीयते । तथाहि प्रकर्षेण संशयादिव्यवच्छेदलक्षणेन मीयते परिच्छि द्यते येनाऽर्थः तत् प्रमाणम्, न चैतन्निर्विकल्पके संभवतीति कथं तत्र प्रमाणशब्दस्यापि प्रवृत्तिः ? व्यवहाराऽनुपयोगित्वाच्च न तत् प्रमाणम्, यद्व्यवहारानुपयोगि न तत् प्रमाणम् यथा गच्छत्तृणस्पर्शसंवेदनम्, तथा च परपरिकल्पितं निर्विकल्पकं प्रत्यक्षमिति ।
Jain Education International
४१५
-न्यायकुमुदचन्द्र, भाग-१, पृ० ४८
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482