Book Title: Bauddh Pramana Mimansa ki Jain Drushti se Samiksha
Author(s): Dharmchand Jain
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 426
________________ परिशिष्ट (तृतीय अध्याय)-ख ३९५ प्रतिपत्तिरव्यपदेश्यैकात्मकनीलरूपविषया ननु हेत्वपदेशव्यपदेश्यैव सा । यतः सञ्चयग्रहणापदेशेन व्यपदेश्यं धूमेनेवाग्निरिव गृह्यते ततोऽन्यत् कल्पितमेकं सामान्यं नीलरूपं तद्द्वारेण । - द्वादशारनयचक्र (ज),भाग-१,पृ० ६५ पादटिप्पण - २२८ तिष्ठतु तावत् प्रत्यक्षविधिविधानाभ्युपगमेन स्वलक्षणमात्रविषयप्रत्यक्षत्वस्य विरोधः प्रत्यक्षविषयत्वाभ्युपगमविरोधः । “चक्षुर्विज्ञानसमङ्गिनीलविज्ञानम्” इत्येतदेव तु न घटते प्रत्यक्षलक्षणोदाहरणम्। एवं ते सञ्चयस्य रूपमात्रत्वात् तद्ग्रहणे तत्प्रत्यक्षत्वात् सञ्चितालम्बनकल्पनावैयर्थ्यादतन्मात्रत्वे संवृतिसत्त्वादरूपत्वाच्च चक्षुर्नैव चक्षुः स्यात्, उभयथापि रूपाग्राहित्वात् ,घटादिवत् । विज्ञानमपि न विज्ञानं स्यात्, अन्यथार्थप्रतिपत्तेः, अलातचक्रादिज्ञानवत् । न च चक्षुर्विज्ञानं समङ्गति, रूपादन्यत्रासम्भवात् । ... नीलविज्ञानसम्बन्धी न भवति तत्संतानः तदाकारज्ञानोत्पत्तिहे. त्वभावात्, अदग्धस्य दाहाज्ञानवत् । ...नीलं च सञ्चयं च प्रत्येकसमुदितकारणत्वाद् विज्ञास्यतीति चेत् न, युगपज्ञानाऽसंभवात्, ज्ञानस्य क्रियावैधात् । ...तयोरेकज्ञानत्वादेकज्ञेयत्वे इतरेतरत्वे सर्वसर्वात्मवादिता ।.. यत्तूक्तं नो नीलमिति एतदेवैकं संवदति, कदाचिदपि नीलपरमाण्वाकारनियतज्ञानोत्पत्तिहेत्वभावात्, समुदायस्यानीलत्वात् । भेदतत्त्वाभिमतप्रत्येकसमुदायपरिग्रहेऽपि तेषामितरेतरनीलत्वेनानीलत्वादतद्रूपत्वाज्जात्याकारादिना अनन्यत्वकरस्यानुपपत्तेरत्यन्तव्यावृत्तार्थत्वाद् द्रव्यसद्रूपत्वाद् ग्रहणाभावान्न नीलं विजानाति । अतएव प्रत्यक्षविधिवाक्यस्यैषोऽर्थ आपद्यते-चक्षुर्विज्ञानसमङ्गी सञ्चितालम्बनः सन्तानः सञ्चयं संवृतिसन्तं नीलं विजानाति,तस्यासतश्चक्षुषा ग्रहणात् । नो तु नीलमेवं भवति, परमार्थसत्परमाणुनीलत्वात् । -द्वादशारनयचक्र (अ), भाग-१,पृ.७०-७७ पादटिप्पण - २२९ ___ भावना त्वस्य - अनर्थेऽर्थसंज्ञी, न च कदाचित् कश्चिदप्यर्थे धर्मसंज्ञी । अनर्थे संवृतिसति समुदाये द्रव्यसन्नीलसंज्ञी,न त्वर्थेऽर्थसंज्ञी न त्वर्थे एव द्रव्यसति अर्थसंज्ञी तस्यातीन्द्रियत्वात् । न च कदाचित् कश्चिदप्यर्थे धर्मसंज्ञी, अतीन्द्रियत्वादत्यन्तं सर्वकालमप्राह्यत्वात् । अनर्थे एव धर्मसंज्ञी, अनर्थे एवासति नामादिधर्मसंज्यपि, सञ्चयस्य नामादीनां च कल्पनात्मकत्वात् कल्पनापोहासम्भवात् । ततः शून्यशून्यप्रत्युत्पादनावदसद्विषयत्वान्निर्मूलकल्पनामात्रसत्यता । -द्वादशारनयचक्र (ज) , भाग-१,पृ.७७-७८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482