Book Title: Bauddh Pramana Mimansa ki Jain Drushti se Samiksha
Author(s): Dharmchand Jain
Publisher: Parshwanath Shodhpith Varanasi
View full book text ________________
परिशिष्ट (तृतीय अध्याय) -ख पादटिप्पण - २२०
सा द्विविधा समासतः यादृच्छिकी नैमित्तिकी च । नामग्रहणाद् यादृच्छिकी जात्यादिग्रहणाच्च नैमित्तिकी गृहीता। निमित्तनिरपेक्षं नाम यादृच्छिकं “डित्थो डवित्थः” इत्यादि । ...अक्षाधिपत्योत्पन्नमिति
रूपालोकमनस्कारचक्षुर्ध्यः सम्प्रवर्तते ।
विज्ञानं मणिसूर्यांशुगोशकृभ्य इवानलः ॥ चक्षुःप्रतीत्य रूपं च आलोकं च बाह्यं समनन्तरनिरुद्धं मनःसंज्ञितं चित्तं चित्तान्तरावकाशदानात्मकं प्रतीत्य चक्षुर्विज्ञानमुत्पद्यते, चतुर्मिश्चित्तचैताः (अभिधर्मकोश २/६४) इति सिद्धान्तात् । तथापि च अधिपतिना चक्षुषा व्यपदिश्यते 'चक्षुर्विज्ञानम्' इति,असाधारणकारणत्वात्,यथा यवाकुर इति बीजतुवारिमारुताकाशसंयोगे सत्यपीति ।
-सिंहसूरि,न्यायागमानुसारिणी, द्वादशारनयचक्र (ज), भाग - १, पृ० ६० पादटिप्पण - २२१ ___ घटादिकल्पनापोढं प्रत्यक्षम् । अथ का कल्पना? नामजातिगुणक्रियाद्रव्यस्वरूपापन्नवस्त्वन्तरनिरूपणानुस्मरणविकल्पना । ततोऽपोढमक्षाधिपत्योत्पन्नमसाधारणार्थविषयमभिधानगोचरातीतं प्रत्यात्मसंवेद्यं ज्ञानं प्रत्यक्षम् । “चक्षुर्विज्ञानसमङ्गी नीलं विजानाति नो तु नीलम्” इति अभिधर्मागमोऽपि । प्रकरणपादेऽप्युक्तम्
नीलः स नाम नीलं न नीलार्थोऽनक्षरः स च ।
नीलमिति भाषमाणो नीलस्यार्थ न पश्यति ॥ एतस्यैवार्थस्य भावना तु - अर्थेऽर्थसंज्ञी,न त्वर्थे धर्मसंज्ञी (अभिधर्मपिटक)। अर्थे रूपादिके स्वरूपसंज्ञी,अर्थस्वरूपविशेषमात्रालम्बनया संज्ञया निर्विकल्पया सम्प्रयुक्तं स्वलक्षणविषयमस्य सन्तानस्येति । न त्वर्थे रूपादिके यदृच्छादिनामसंज्ञी। एवमभिधर्म उक्तम् - धर्मो नामोच्यते नामकायः पदकायो व्यंजनकायः । -मल्लवादी,द्वादशारनयचक्र (ज), भाग-१,पृ० ५९-६२ पादटिप्पण- २२३
कल्पितमपि त्विदमफलमलौकिकत्वात् । स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधपरिहारं त्वदुक्तिवदेवेदमप्रत्यक्षम्, कल्पनात्मकत्वान्निरूपणविकल्पात्मकत्वादालम्बनविपरीतप्रतिपत्त्यात्मकत्वादध्यारोपात्मकत्वात् सामान्यरूपविषयत्वात् तदतदविषयवृत्तित्वात् सदसदभेदपरिग्रहात्मकत्वात् सर्वथा साधारणार्थत्वादेः,अनुमानादिज्ञानवत् ।-द्वादशारनयचक्र (ज) भाग-१, पृ० ६३ पादटिप्पण - २२४
तत्र प्रतिविविक्तरूपान्तराविविक्तस्वतत्त्वे रूपसंघाते इन्द्रियसन्निकृष्टे आलम्बनविपरीता येयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482