Book Title: Bauddh Pramana Mimansa ki Jain Drushti se Samiksha
Author(s): Dharmchand Jain
Publisher: Parshwanath Shodhpith Varanasi
View full book text ________________
३९६
बौद्ध प्रमाण-मीमांसा की जैनदृष्टि से समीक्षा
पादटिप्पण - २३०
प्रत्यक्षस्याप्रत्यक्षत्वसाधने च द्वे लेशेनोन्नीते त्वयैव त्वदभिमतप्रत्यक्षमनेकार्थजन्यत्वादनुमानवत् । अनुमानमपि हि पक्षधर्माद्यनेकार्थजन्यम् । ज्ञापकः स हेतुरिति चेत्, कारकादपि अनेकस्मादर्थाज्जायते सध्यसाधन धर्मान्वयैकान्तवतः । न, असञ्चितानेकार्थजन्यत्वादनुमाने । ननु धूमादिरपि सञ्चय एव गृहीतोऽग्न्यादिमणूनिव गमयति ।
तथा स्वार्थे सामान्यगोचरत्वादनुमानवदप्रत्यक्षम् । अनुमानं वा प्रत्यक्षं स्यात्, अनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरत्वात् प्रत्यक्षवत् । द्वयमप्येतदेकमेव, एकलक्षणत्वात् ।
द्वादरशारनयचक्र (ज), भाग-१, पृ. ९४-९५
पादटिप्पण - २३१
किं तत् सर्वथा कल्पनापोढम्, उताहो कथञ्चिदिति । यदि सर्वथा 'अस्ति प्रमाणं ज्ञानं कल्पनापोढम्' इत्येवमादिकल्पनाभ्योऽप्यपोढमिति, अस्त्यादिवचनव्याघातः । अथ अस्त्यादि कल्पनाभ्योऽनपोढमिष्यते; 'सर्वथा कल्पनापोढम्' इति वचनव्याघातः । अथ कथञ्चित्कल्पनापोढम् एकान्तवादत्यागात् पुनरपि स्ववचनव्याघात एव । - अकलङ्क, तत्त्वार्थवार्तिक, पृ. ५५ पादटिप्पण - २३४
न वै ज्ञानमेव प्रमाणम्, अतिप्रसङ्गात्, संव्यवहारानुपयोगिनः संशयविपर्यासकारणस्य अकिचित्करस्य च ज्ञानस्य भावाऽविरोधात् । - अकलङ्क, लघीयस्त्रय, अकलङ्कग्रंथत्रय, पृ. १-२
यतः प्रभृति प्रेक्षापूर्विका पुरुषप्रवृत्तिः तस्य मुख्यतः प्रमाणत्वोपपत्तिः । स्वेचितेऽ न्यानपेक्षस्य अविसंवादैकभवनस्य विकल्पविषयस्य च तत्त्वतः, यतोऽयमस्खलद्वृत्तिः हिताहितप्राप्तिपरिहारयोः संकरव्यतिकरव्यतिरेकेण प्रवर्तेत ।- सिद्धिविनिश्चययटीका, पृ. ९७
विषदर्शनवदशस्य दर्शनमविकल्पकम् ।
न स्यात्प्रमाणं सर्वमविसंवादहानितः ॥ - सिद्धिविनिश्चय, १.२४
विषमालोक्य तत्र अज्ञ इव प्रमाणयति न पुनः व्यवसायात्मकं प्रमाणमविसंवादकमिति लक्षयति चेति विपरीतलक्षणप्रज्ञो देवानांप्रियः । सर्वमेव दर्शनमविकल्पकं कथं प्रत्यक्षं विसंवादकं अज्ञस्य विषदर्शनमिव । व्यवसायात्मकस्यैवाविसंवादकत्वोपपत्तेः । तदितरस्याव्यवसायात्मकत्वेन विसंवादात् । - सिद्धिविनिश्चयटीका, पृ. १०८ पादटिप्पण - २३५
ननु अविकल्पकं सुखादिनीलादिनिर्भासिज्ञानमविसंवादकम्, न च तदविसंवादकम् अपितु विकल्पमेव व्यवसायात्मकत्वात् । तदविसंवादिनः प्रत्यक्षस्य निर्विकल्पकत्वे क्षणक्षयादिवत् साध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482