SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ३९६ बौद्ध प्रमाण-मीमांसा की जैनदृष्टि से समीक्षा पादटिप्पण - २३० प्रत्यक्षस्याप्रत्यक्षत्वसाधने च द्वे लेशेनोन्नीते त्वयैव त्वदभिमतप्रत्यक्षमनेकार्थजन्यत्वादनुमानवत् । अनुमानमपि हि पक्षधर्माद्यनेकार्थजन्यम् । ज्ञापकः स हेतुरिति चेत्, कारकादपि अनेकस्मादर्थाज्जायते सध्यसाधन धर्मान्वयैकान्तवतः । न, असञ्चितानेकार्थजन्यत्वादनुमाने । ननु धूमादिरपि सञ्चय एव गृहीतोऽग्न्यादिमणूनिव गमयति । तथा स्वार्थे सामान्यगोचरत्वादनुमानवदप्रत्यक्षम् । अनुमानं वा प्रत्यक्षं स्यात्, अनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरत्वात् प्रत्यक्षवत् । द्वयमप्येतदेकमेव, एकलक्षणत्वात् । द्वादरशारनयचक्र (ज), भाग-१, पृ. ९४-९५ पादटिप्पण - २३१ किं तत् सर्वथा कल्पनापोढम्, उताहो कथञ्चिदिति । यदि सर्वथा 'अस्ति प्रमाणं ज्ञानं कल्पनापोढम्' इत्येवमादिकल्पनाभ्योऽप्यपोढमिति, अस्त्यादिवचनव्याघातः । अथ अस्त्यादि कल्पनाभ्योऽनपोढमिष्यते; 'सर्वथा कल्पनापोढम्' इति वचनव्याघातः । अथ कथञ्चित्कल्पनापोढम् एकान्तवादत्यागात् पुनरपि स्ववचनव्याघात एव । - अकलङ्क, तत्त्वार्थवार्तिक, पृ. ५५ पादटिप्पण - २३४ न वै ज्ञानमेव प्रमाणम्, अतिप्रसङ्गात्, संव्यवहारानुपयोगिनः संशयविपर्यासकारणस्य अकिचित्करस्य च ज्ञानस्य भावाऽविरोधात् । - अकलङ्क, लघीयस्त्रय, अकलङ्कग्रंथत्रय, पृ. १-२ यतः प्रभृति प्रेक्षापूर्विका पुरुषप्रवृत्तिः तस्य मुख्यतः प्रमाणत्वोपपत्तिः । स्वेचितेऽ न्यानपेक्षस्य अविसंवादैकभवनस्य विकल्पविषयस्य च तत्त्वतः, यतोऽयमस्खलद्वृत्तिः हिताहितप्राप्तिपरिहारयोः संकरव्यतिकरव्यतिरेकेण प्रवर्तेत ।- सिद्धिविनिश्चययटीका, पृ. ९७ विषदर्शनवदशस्य दर्शनमविकल्पकम् । न स्यात्प्रमाणं सर्वमविसंवादहानितः ॥ - सिद्धिविनिश्चय, १.२४ विषमालोक्य तत्र अज्ञ इव प्रमाणयति न पुनः व्यवसायात्मकं प्रमाणमविसंवादकमिति लक्षयति चेति विपरीतलक्षणप्रज्ञो देवानांप्रियः । सर्वमेव दर्शनमविकल्पकं कथं प्रत्यक्षं विसंवादकं अज्ञस्य विषदर्शनमिव । व्यवसायात्मकस्यैवाविसंवादकत्वोपपत्तेः । तदितरस्याव्यवसायात्मकत्वेन विसंवादात् । - सिद्धिविनिश्चयटीका, पृ. १०८ पादटिप्पण - २३५ ननु अविकल्पकं सुखादिनीलादिनिर्भासिज्ञानमविसंवादकम्, न च तदविसंवादकम् अपितु विकल्पमेव व्यवसायात्मकत्वात् । तदविसंवादिनः प्रत्यक्षस्य निर्विकल्पकत्वे क्षणक्षयादिवत् साध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002113
Book TitleBauddh Pramana Mimansa ki Jain Drushti se Samiksha
Original Sutra AuthorN/A
AuthorDharmchand Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year1995
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Culture, & Religion
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy