________________
परिशिष्ट (तृतीय अध्याय)-ख
३९५
प्रतिपत्तिरव्यपदेश्यैकात्मकनीलरूपविषया ननु हेत्वपदेशव्यपदेश्यैव सा । यतः सञ्चयग्रहणापदेशेन व्यपदेश्यं धूमेनेवाग्निरिव गृह्यते ततोऽन्यत् कल्पितमेकं सामान्यं नीलरूपं तद्द्वारेण ।
- द्वादशारनयचक्र (ज),भाग-१,पृ० ६५ पादटिप्पण - २२८
तिष्ठतु तावत् प्रत्यक्षविधिविधानाभ्युपगमेन स्वलक्षणमात्रविषयप्रत्यक्षत्वस्य विरोधः प्रत्यक्षविषयत्वाभ्युपगमविरोधः । “चक्षुर्विज्ञानसमङ्गिनीलविज्ञानम्” इत्येतदेव तु न घटते प्रत्यक्षलक्षणोदाहरणम्।
एवं ते सञ्चयस्य रूपमात्रत्वात् तद्ग्रहणे तत्प्रत्यक्षत्वात् सञ्चितालम्बनकल्पनावैयर्थ्यादतन्मात्रत्वे संवृतिसत्त्वादरूपत्वाच्च चक्षुर्नैव चक्षुः स्यात्, उभयथापि रूपाग्राहित्वात् ,घटादिवत् ।
विज्ञानमपि न विज्ञानं स्यात्, अन्यथार्थप्रतिपत्तेः, अलातचक्रादिज्ञानवत् । न च चक्षुर्विज्ञानं समङ्गति, रूपादन्यत्रासम्भवात् । ... नीलविज्ञानसम्बन्धी न भवति तत्संतानः तदाकारज्ञानोत्पत्तिहे. त्वभावात्, अदग्धस्य दाहाज्ञानवत् । ...नीलं च सञ्चयं च प्रत्येकसमुदितकारणत्वाद् विज्ञास्यतीति चेत् न, युगपज्ञानाऽसंभवात्, ज्ञानस्य क्रियावैधात् । ...तयोरेकज्ञानत्वादेकज्ञेयत्वे इतरेतरत्वे सर्वसर्वात्मवादिता ।..
यत्तूक्तं नो नीलमिति एतदेवैकं संवदति, कदाचिदपि नीलपरमाण्वाकारनियतज्ञानोत्पत्तिहेत्वभावात्, समुदायस्यानीलत्वात् । भेदतत्त्वाभिमतप्रत्येकसमुदायपरिग्रहेऽपि तेषामितरेतरनीलत्वेनानीलत्वादतद्रूपत्वाज्जात्याकारादिना अनन्यत्वकरस्यानुपपत्तेरत्यन्तव्यावृत्तार्थत्वाद् द्रव्यसद्रूपत्वाद् ग्रहणाभावान्न नीलं विजानाति ।
अतएव प्रत्यक्षविधिवाक्यस्यैषोऽर्थ आपद्यते-चक्षुर्विज्ञानसमङ्गी सञ्चितालम्बनः सन्तानः सञ्चयं संवृतिसन्तं नीलं विजानाति,तस्यासतश्चक्षुषा ग्रहणात् । नो तु नीलमेवं भवति, परमार्थसत्परमाणुनीलत्वात् । -द्वादशारनयचक्र (अ), भाग-१,पृ.७०-७७ पादटिप्पण - २२९ ___ भावना त्वस्य - अनर्थेऽर्थसंज्ञी, न च कदाचित् कश्चिदप्यर्थे धर्मसंज्ञी । अनर्थे संवृतिसति समुदाये द्रव्यसन्नीलसंज्ञी,न त्वर्थेऽर्थसंज्ञी न त्वर्थे एव द्रव्यसति अर्थसंज्ञी तस्यातीन्द्रियत्वात् । न च कदाचित् कश्चिदप्यर्थे धर्मसंज्ञी, अतीन्द्रियत्वादत्यन्तं सर्वकालमप्राह्यत्वात् । अनर्थे एव धर्मसंज्ञी, अनर्थे एवासति नामादिधर्मसंज्यपि, सञ्चयस्य नामादीनां च कल्पनात्मकत्वात् कल्पनापोहासम्भवात् । ततः शून्यशून्यप्रत्युत्पादनावदसद्विषयत्वान्निर्मूलकल्पनामात्रसत्यता ।
-द्वादशारनयचक्र (ज) , भाग-१,पृ.७७-७८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org