________________
परिशिष्ट (तृतीय अध्याय)-ख
३९७
नान्तरमपेक्षते अनिश्चियादिति ।- सिद्धिविनिश्चयटीका, पृ.१०८ पादटिप्पण • २३६ ___ कल्पनापोढमप्रान्तमपि दर्शनं विसंवादयत्येव यथादर्शनं निर्णयायोगात् ।.... तस्मान्नायमविकल्पोऽनुभवः स्वलक्षणग्राही यथार्थनिर्भासं व्यवसाययितुं समर्थोऽविसंवादको नाम । न चाविकल्पितेन स्वभावेन स्वलक्षणव्यवस्थापनं युक्तमद्वैतवदिति भेदाभावात् ।
-सिद्धिविन्छियटीका, पृ.१०८ पादटिप्पण -२३८
स्वसंवेद्यं विकल्पानां विशदार्थावभासनम् ।
संहृताशेषचिन्तायां सविकल्पावभासनात् ॥-लवीयस्खाय, २३ सर्वत :संहृतश्चिन्तां स्तिमितान्तरात्मना स्थितोऽपि चक्षुषा रूपं संस्थानात्मकं स्थूलात्मकमेकं सूक्ष्मानेकस्वभावं पश्यति न पुनः असाधारणैकान्तं स्वलक्षणम् ।
-लघीयस्वाय, अकलङ्कअन्यत्रय , पृ.८ पादटिप्पण - २४०
प्रतिसंविदितोत्पत्तिव्यया : सत्योऽपि कल्पनाः ।।
प्रत्यक्षेषु न लक्ष्येरंस्तत्स्वलक्षणभेदवत् ॥-लघीयखाय, अकलङ्कअन्यत्रय, पृ.९ सदृशापरापरोत्पत्तिविप्रलम्भात् तद्विशेषादर्शिनोऽनवधारणम् असमीक्षिताभिधानम् ,सर्वथा तत्सादृश्यानिष्टे : । प्रतिसंहारैकान्त : संभवति न वेति चिन्त्यमेतत् । कथं च प्रत्यक्षबुद्धयः सर्वथा विकल्पाः पुनर्विकल्पेरन् ।- लघीयतायवृत्ति, अकलङ्कअंधत्रय, पृ.९ पादटिप्पण - २४२
अविकल्पकमभ्रान्तं प्रत्यक्षाभं पटीयसाम् । अविसंवादनियमादक्षगोचरचेतसाम् ।। सर्वथा वितथार्थत्वं सर्वेषामभिलापिनाम् ।
ततस्तत्त्वव्यवस्थानं प्रत्यक्षस्येति साहसम् ॥-न्यायविनिश्चयविवरण,पृ.५२०-२२ पादटिप्पण • २४३
किञ्चित्केनचिद्विशिष्टं गृह्यमाणं विशेषणविशेष्यतत्सम्बन्धादिग्रहणमन्तरेण न भवितुमर्हति । ततः प्रत्यक्षसदृशार्थाभिधानस्मृतिरनभिलापिनी अभिलापादिविषया सिद्धा । अभिलापसंसर्गयोग्यप्रतिभासा प्रतीति : कल्पनेति विशेषणाददोषश्चेत् स्वार्थसन्निकर्षनिर्भासविशेषवैकल्यरूपव्यतिरेकेण न तद्विशेषणार्थमुप्रेक्षामहे ।
पश्यन् स्वलक्षणान्येकं स्थूलमक्षणिकं स्फुटम् । यद्व्यवस्यति वैशद्यं तद्विद्धि सदृशस्मृते : ॥ ९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org