________________
परिशिष्ट (द्वितीय अध्याय)- क
चित्संवादात् प्रत्यक्षत्वेनैव मणिप्रभायां मणिदर्शनस्य दृष्टान्तत्वमयुक्तं, कादाचित्कार्थप्राप्तेरारेकादेरपि संभवात् प्रत्यक्षत्वप्रसक्तेः । अष्टसहस्त्री, पृ० २७७-७८
पादटिप्पण - १३१
न हि मिथ्याज्ञानस्य संवादनैकान्तः संभवति, विरोधात् । नन्वनुमानस्य संभवत्येवावस्तुविषयत्वेन मिथ्याज्ञानस्यापि सर्वदा संवादनं लिङ्गज्ञानवत् पारम्पर्येण वस्तुनि प्रतिबन्धात् । तदुक्तम्लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि ।
प्रतिबन्धात्तदाभासं शून्ययोरप्यवचनम् ॥ प्रमाणवार्तिक, २.८२
प्रमाणमविसंवादि ज्ञानमित्युपवर्ण्यते । कैश्चित् तत्राविसंवादो यद्याकांक्षानिवर्तनम् ॥ तदा स्वप्नादिविज्ञानं प्रमाणमनुषज्यते । ततः कस्यचिदर्थेषु परितोषस्य भावतः ॥
पादटिप्पण - १३३
तथा न लैङ्गिकं सर्वथैवाविसंवादकत्वात् । नहि तदालम्बनं भ्रान्तं प्राप्येऽपि वस्तुनि भ्रान्तत्वप्रसङ्गात् । प्राप्ये तस्याविसंवादकत्वे स्वालम्बनेप्यविसंवादकत्वम् । - अष्टसहस्त्री, पृ० २७८
पादटिप्पण- १३४
अर्थक्रियास्थितिः प्रोक्ता विमुक्तिः सा न तत्र चेत् । शाब्दादाविव तद्भावोऽस्त्वभिप्रायनिवेदनात् ॥
३८७
- अष्टसहस्त्री, पृ० २७८
- तत्त्वार्थश्लोकवार्तिक,
Jain Education International
पादटिप्पण - १३५
अविसंवादकत्वमधुना विचार्यते तत्किं प्रदर्शितार्थप्राप्त्या उत प्राप्तियोग्यार्थोपदर्शकत्वेन आहोस्विदविचलितार्थविषयत्वेन भवान् ज्ञानस्य प्रामाण्यं कथयति । यदि प्रथमः कल्पः तदयुक्तम्, जलबुद्बुदादिमुमूर्षुपदार्थोत्पादितसंवेदनस्याप्रमाणतोत्पत्तेः प्राप्तिकाले तस्य ध्वस्तत्वात् । अथ द्वितीयः, तदप्यचारु,प्राप्त्ययोग्यदेशस्थितप्रहनक्षत्रादिगोचरज्ञानस्याप्रामाण्यप्रसक्तेः, अनुचितदेशा.वस्थानेनैव प्राप्त्यनर्हत्वात्तेषाम् । अथ तृतीयः पक्षः, तत्राप्यविचलितविषयतां कथमवैषि । ज्ञानान्तरेण तद्विषयनिराकरणाभावादिति चेत्, एतदेवास्माभिरुदितं किं भवतः परुषमाभाति ।
- सिद्धर्विगणि, न्यायावतारविवृति, १, पृ० ३७
For Private & Personal Use Only
१.१०.५९-६१
पादटिप्पण - १३७
सौगतैस्तु " प्रमाणमविसंवादिज्ञानम्” इति वचनात् अविसंवादकत्वं प्रमाणलक्षणमुक्तम् ।
www.jainelibrary.org