________________
३८६
बौद्ध प्रमाण-मीमांसा की जैनदृष्टि से समीक्षा
तादात्म्यक्षतेः, तद्विषयान्यज्ञानानामप्रामाण्यं प्रसज्येत । तत्सान्निध्यपक्षेऽपि द्वयोरपि परस्परं विशकलितरूपत्वात् पक्षद्वयोदितं दूषणं पश्चाल्लग्नं धावति । विशेषविशिष्टसामान्यपक्षे पुनरेतदेव विपरीतं योज्यम् । तन्न, अनधिगतार्थाधिगन्तृत्वं ज्ञानस्य कथञ्चिद् विचारभारगौरवं सहत इत्यलक्षणमिति स्थितम् ।-सिद्धर्षिगणि, न्यायावतारविवृति, का०-१, पृ० ३६-३७ पादटिप्पण -१२७ ___ सम्यग्ज्ञानत्वं ह्यविसंवादकत्वेन व्याप्तम्,तदभावे तदसंभवात् तदप्यर्थप्रापकत्वेन अर्थाप्रापकस्याविसंवादित्वाभावात्,निर्विषयज्ञानवत् । तदपि प्रवर्तकत्वेन व्याप्तम्, अप्रवर्तकस्यार्थाप्रापकत्वात् तद्वत्। प्रवर्तकत्वमपि स्वविषयोपदर्शकत्वेन व्याप्तम्, स्वविषयमुपदर्शयतः प्रवर्तकव्यवहारविषयत्वसिद्धेः । न हि पुरुषं हस्ते गृहीत्वा ज्ञानं प्रवर्तयति । स्वविषयं तूपदर्शयत् प्रवर्तकमुच्यते अर्थप्रापकं चेत्यविसंवादकं सम्यग्वेदनं प्रमाणम्,तद्विपरीतस्य मिथ्याज्ञानत्वप्रसिद्धः, संशयादिवत्, इति धर्मोत्तरमतम् ।- विद्यानन्द,प्रमाणपरीक्षा, पृ० ५-६ पादटिप्पण -१२८
तत्राव्यवसायात्मकस्य चतुर्विधस्यापि समक्षस्य सम्यग्वेदनत्वं न व्यवतिष्ठते, तस्य स्वविषयोपदर्शकत्वासिद्धेः। तत्सिद्धौ वा नीलादाविव क्षणक्षयादावपि तदुपदर्शकत्वप्रसक्तेः । ततो यदव्यवसायात्मकं ज्ञानं न तत्स्वविषयोपदर्शकम्, यथा गच्छतृणस्पर्शसंवेदनमनध्यवसायि प्रसिद्धम्, अव्यवसायात्मकं च सौगताभिमतं दर्शनमिति व्यापकानुपलब्धिः सिद्धा । व्यवसायात्मकत्वस्य व्यापकस्याभावे तद्व्याप्यस्य स्वविषयोपदर्शकत्वस्याननुभवात् । -प्रमाणपरीक्षा, पृ०६ पादटिप्पण - १३०
मणिप्रदीपप्रभयोमणिबुद्ध्याभिधावतः।। मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ।।
यथा तथाऽयथार्थत्वेऽप्यनुमानावभासयोः।
__ अर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् ॥- प्रमाणवार्तिक,२.५७-५८ इति,मणिप्रदीपप्रभादृष्टान्तोपि स्वपक्षघाती,मणिप्रदीपप्रभादर्शनस्यापि संवादकत्वेन प्रमाणप्राप्त्या प्रमाणान्तर्भावविघटनात् कथं प्रमाणे एवेत्यवधारणं घटते ? न हि तत्प्रत्यक्षं स्वविषये विसंवादनात् शुक्तिकादर्शनवद्रजतप्रान्तौ । तत्राप्रतिपन्नव्यभिचारस्य यदेव मया दृष्टं तदेव मया प्राप्तमित्येकत्वाध्यवसायाद्विसंवादनाभावान्मणिप्रभायां मणिदर्शनस्य प्रत्यक्षत्वे तिमिराशुभ्रमणनौयानसंक्षोभाद्याहितविभ्रमस्यापि धावद्दवादितरुदर्शनस्य प्रत्यक्षत्वप्रसङ्गादान्तमिति विशेषणमध्यक्षस्य न स्यात् ।......इति न तत् प्रत्यक्षं स्यात् । नापि लैङ्गिकं,लिङ्गलिङ्गिसम्बन्धाप्रतिपत्तेरन्यथा दृष्टान्तेतरयोरेकत्वात् किं केन कृतं स्यात् ? .... स्वयमसिद्धेन दृष्टान्तेन साध्यसिद्धेरकरणात् । कदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org