________________
परिशिष्ट (द्वितीय अध्याय) -क पादटिप्पण - ९८
अज्ञातार्थप्रकाशश्चेल्लक्षणं परमार्थतः । गृहीतग्रहणान्न स्यादनुमानस्यानुमानता ॥६८ ॥ प्रत्यक्षेण गृहीतेऽपि क्षणिकत्वादिवस्तुनि । समारोपव्यवच्छेदात्प्रामाण्यं लैङ्गिकस्य चेत् ॥६९ ॥ स्मत्यादिवेदनस्यातःप्रमाणत्वमपीष्यताम। मानद्वैविध्यविध्वंसनिबन्धनमबाधितम् ॥७० ॥ मुख्यं प्रामाण्यमध्यक्षेऽनुमाने व्यावहारिकम्। इति बुवन्न बौद्धः स्यात् प्रमाणे लक्षणद्वयम् ॥७१ ।।
-विद्यानन्द, तत्त्वार्थश्लोकवार्तिक, १.१०.६८-७१ पादटिप्पण- १०१
अनधिगतार्थाधिगन्तृत्वं किमभिधीयते? ज्ञानान्तरेणानधिगतमर्थं यदधिगच्छति तत्प्रमाणमिति चेत् तर्हि तज्ज्ञानान्तरं परकीयं स्वकीयं वा। तद्यदि परकीयम्, तदयुक्तम्, सर्वज्ञज्ञानस्य सकलार्थगोचरतया सर्वप्राकृतलोकज्ञानानामधिगतार्थाधिगन्तृत्वेनाप्रामाण्यप्रसङ्गात्, तदर्थवाहिजनान्तरदर्शनसंभवाच्च । अथ स्वकीयं, तत्रापि सोऽधिगम्योऽर्थः किं द्रव्यमुत पर्यायो वा । द्रव्यविशिष्टपर्यायः पर्यायविशिष्टं वा द्रव्यमिति। तथा किं सामान्यमुत विशेषः। आहोस्वित् सामान्यविशिष्टो विशेषः विशेषविशिष्टं वा सामान्यम् । इत्यष्टौ पक्षाः। तत्र यद्याद्यमुररीकुरुषे, तदयुक्तम्,द्रव्यस्य नित्यत्वैकत्वाभ्यामनधिगतत्वांशाभावात् । अथ द्वितीयम्,तदप्यचारु,पर्यायस्य प्राचीनसंवेदनोदयसमयध्वस्तस्य संवेदनान्तरप्रभवकालं यावत्प्रतीक्षणासंभवेन विशेषणानर्थक्यात् । उत तृतीयम्, तदप्यसाधीयः, विकल्पद्वयानतिक्रमात् । स हि द्रव्यविशिष्टः पर्यायः समकालभाविना ज्ञानेनानधिगतोऽधिगम्यते, यद्वा कालान्तरभाविनेति। न तावत्समकालभाविना, तत्संभवाभावेन विशेषणवैफल्यात् । न हि संभवोऽस्त्येकस्य प्रमातुरेककालं द्रव्यक्रोडीकृतैकपर्यायविषय-संवेदनद्वयप्रवृत्तेः, तथानुभवाभावात्, परस्परमधिगतार्थाधिगन्तृत्वेनाप्रामाण्यप्रसंगाच्च । नापि कालान्तरभाविना, गृह्यमाणपर्यायस्य कालान्तरानास्कन्दनात्, पूर्वोत्तरक्षणत्रुटितवर्तमानक्षणमात्रसंबंधत्वात्तस्य । एतेन पर्यायविशिष्टद्रव्यपक्षोऽपि प्रतिव्यूढः, समानयोगक्षेमत्वात् । अथ सामान्यं,तदप्यसंबद्धम्, तदेकतया प्रथमज्ञानेन साकल्यग्रहणादुत्तरेषां सामान्यज्ञानानामधिगतार्थगोचरतयाप्रामाण्यप्रसंगात् । अथ विशेषः स नित्योऽनित्यो वेति वक्तव्यम् । नित्यश्चेत्, एवं सत्याद्यसंवेदनेनैव तस्य सामस्त्यग्रहणादुत्तरेषां तद्विषयाणामधिगतगोचरत्वेनाप्रामाण्यप्रसक्तिः। अनित्यश्चेत्, पर्यायदूषणेन प्रतिक्षिप्तः । अर्थसामान्यविशिष्टो विशेषः । कास्य विशिष्टता, किं तादात्म्यमुत तत्सनिधिमात्रम् । तादात्म्यं चेत्, प्रथमज्ञानेन सामान्यवत्तस्यापि ग्रहणात्, अन्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org