Book Title: Bauddh Pramana Mimansa ki Jain Drushti se Samiksha
Author(s): Dharmchand Jain
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 417
________________ ३८६ बौद्ध प्रमाण-मीमांसा की जैनदृष्टि से समीक्षा तादात्म्यक्षतेः, तद्विषयान्यज्ञानानामप्रामाण्यं प्रसज्येत । तत्सान्निध्यपक्षेऽपि द्वयोरपि परस्परं विशकलितरूपत्वात् पक्षद्वयोदितं दूषणं पश्चाल्लग्नं धावति । विशेषविशिष्टसामान्यपक्षे पुनरेतदेव विपरीतं योज्यम् । तन्न, अनधिगतार्थाधिगन्तृत्वं ज्ञानस्य कथञ्चिद् विचारभारगौरवं सहत इत्यलक्षणमिति स्थितम् ।-सिद्धर्षिगणि, न्यायावतारविवृति, का०-१, पृ० ३६-३७ पादटिप्पण -१२७ ___ सम्यग्ज्ञानत्वं ह्यविसंवादकत्वेन व्याप्तम्,तदभावे तदसंभवात् तदप्यर्थप्रापकत्वेन अर्थाप्रापकस्याविसंवादित्वाभावात्,निर्विषयज्ञानवत् । तदपि प्रवर्तकत्वेन व्याप्तम्, अप्रवर्तकस्यार्थाप्रापकत्वात् तद्वत्। प्रवर्तकत्वमपि स्वविषयोपदर्शकत्वेन व्याप्तम्, स्वविषयमुपदर्शयतः प्रवर्तकव्यवहारविषयत्वसिद्धेः । न हि पुरुषं हस्ते गृहीत्वा ज्ञानं प्रवर्तयति । स्वविषयं तूपदर्शयत् प्रवर्तकमुच्यते अर्थप्रापकं चेत्यविसंवादकं सम्यग्वेदनं प्रमाणम्,तद्विपरीतस्य मिथ्याज्ञानत्वप्रसिद्धः, संशयादिवत्, इति धर्मोत्तरमतम् ।- विद्यानन्द,प्रमाणपरीक्षा, पृ० ५-६ पादटिप्पण -१२८ तत्राव्यवसायात्मकस्य चतुर्विधस्यापि समक्षस्य सम्यग्वेदनत्वं न व्यवतिष्ठते, तस्य स्वविषयोपदर्शकत्वासिद्धेः। तत्सिद्धौ वा नीलादाविव क्षणक्षयादावपि तदुपदर्शकत्वप्रसक्तेः । ततो यदव्यवसायात्मकं ज्ञानं न तत्स्वविषयोपदर्शकम्, यथा गच्छतृणस्पर्शसंवेदनमनध्यवसायि प्रसिद्धम्, अव्यवसायात्मकं च सौगताभिमतं दर्शनमिति व्यापकानुपलब्धिः सिद्धा । व्यवसायात्मकत्वस्य व्यापकस्याभावे तद्व्याप्यस्य स्वविषयोपदर्शकत्वस्याननुभवात् । -प्रमाणपरीक्षा, पृ०६ पादटिप्पण - १३० मणिप्रदीपप्रभयोमणिबुद्ध्याभिधावतः।। मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ।। यथा तथाऽयथार्थत्वेऽप्यनुमानावभासयोः। __ अर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् ॥- प्रमाणवार्तिक,२.५७-५८ इति,मणिप्रदीपप्रभादृष्टान्तोपि स्वपक्षघाती,मणिप्रदीपप्रभादर्शनस्यापि संवादकत्वेन प्रमाणप्राप्त्या प्रमाणान्तर्भावविघटनात् कथं प्रमाणे एवेत्यवधारणं घटते ? न हि तत्प्रत्यक्षं स्वविषये विसंवादनात् शुक्तिकादर्शनवद्रजतप्रान्तौ । तत्राप्रतिपन्नव्यभिचारस्य यदेव मया दृष्टं तदेव मया प्राप्तमित्येकत्वाध्यवसायाद्विसंवादनाभावान्मणिप्रभायां मणिदर्शनस्य प्रत्यक्षत्वे तिमिराशुभ्रमणनौयानसंक्षोभाद्याहितविभ्रमस्यापि धावद्दवादितरुदर्शनस्य प्रत्यक्षत्वप्रसङ्गादान्तमिति विशेषणमध्यक्षस्य न स्यात् ।......इति न तत् प्रत्यक्षं स्यात् । नापि लैङ्गिकं,लिङ्गलिङ्गिसम्बन्धाप्रतिपत्तेरन्यथा दृष्टान्तेतरयोरेकत्वात् किं केन कृतं स्यात् ? .... स्वयमसिद्धेन दृष्टान्तेन साध्यसिद्धेरकरणात् । कदा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482