Book Title: Anusandhan 2009 12 SrNo 50
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
डिसेम्बर-२००९
२५
भक्तामरप्रणि( ण )तमौलिमणिप्रभाणामिति । यः समिति । अस्य व्याख्या-किलेत्यव्ययं पदं सत्यागमनमङ्गलार्थवाचि । अहमपि प्रथमं जिनेन्द्रं स्तोष्ये । किं कृत्वा ? जिनपादयुगं सम्यक् प्रणम्य । जिनस्य प्रथमतीर्थकृतः पादौ-चरणौ, तयोर्युगं-युग्मं जिनपादयुगम् । सम्यक् त्रिका(क)रणशुद्ध्या, नत्वा । कथम्भूतं जिनपादयुगं?, भक्तामरप्रणतमौलिमणिप्रभाणां उद्योतकम् । भक्ताश्च तेऽमराश्च भक्तामराः, तेषां प्रणता ये मौलयः, तेषु ये मणयः, [तेषां याः प्रभाः ता:] भक्तामरप्रणतमौलिमणिप्रभाः, तासां भक्तामरप्रणतमौलिमणिप्रभाणाम् । उद्योतयतीति उद्योतकम् । तत्प्रकाशकमित्यर्थः । पुनः कथम्भूतं जिनपादयुगं ?, दलितपापतमोवितानम् । दलितं-दूरीकृतं पापतमसो वितानं येन तत् दलितपापतमोवितानम् । तत्पुनः किम्भूतं जिनपादयुगं ?, भवजले पततां जनानां युगादौ आलम्बनम् । भव एव जलं भवजलम् । तस्मिन् भवजलेसंसारसमुद्रे, पतन्तीति पतन्तः, तेषां पतताम् । युगस्य आदिः युगादिः, तस्मिन् युगादौ ।
तं इति कम् ?! यः सुरलोकनाथ:(थैः) स्तोत्रैः संस्तुत: । सुष्ठ राजन्ते इति सुराः, तेषां लोको-जगत् स्वर्गः, तस्य नाथैः-प्रभृतिभिः (? भूपतिभिः ?) सुरलोकनाथैः । संस्तुतः- सम्यक् स्तुतः । कथम्भूतं (तैः) सुरलोकनाथैः ?, सकलवाङ्मयतत्त्वबोधात् उद्भूतबुद्धिपटुभिः । 'वाचि विकारो वाड्मयं, सकलं च तत् वाङ्मयं च सकलवाड्मयं, तस्य तत्त्वं सकलवाङ्मयतत्त्वं, तस्य बोधः सकल वाङ्मयतत्त्वबोधः, तस्मात् । उद्भूतश्चासौ बुद्धिश्च उद्भूतबुद्धिः, तया पटवः उद्भूतवुद्धिपटवः, तैः । कथम्भूतैः स्तोत्रैः ?, जगत्रितयचित्तहरैः । जगतां त्रितयं जगत्रितयं, जगत्रितयस्य चित्तं जगत्रितयचित्तं, तस्य हराणि जगत्रितय-चित्तहराणि तैः । पुनः किं० स्तोत्रैः ?, उदारैः-प्रधानैः ॥१-२॥ युग्मम् ।।
बुद्धयेति । हे विवुधार्चितपादपीठ ! अहं विगतत्रपः अस्मि । विबुधैर्देवै: अचितं पादपीठं यस्य स विबुधार्चितपादपीठ: । वि-विशेषेण गता त्रपा यस्मात् स विगतत्रपः । निर्लज्ज इत्यर्थः । कथम्भूतोऽहम् ?, बुद्ध्या विनाऽपि स्तोतुं- स्तवनां कर्तुं समुद्यतमतिः । उक्तमर्थमर्थान्तरन्यासेन द्रढयतिवालं विहाय जलसंस्थितं इन्दुबिम्बं-चन्द्रमण्डलं अन्यजन: सहसा ग्रहीतुं क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170