Book Title: Anusandhan 2009 12 SrNo 50
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 65
________________ ५२ वसुमती सुमतीर्थैसुरप्रियं कपिकलासुकलापिगुरुं गुरुम् । मृगपतत्र्यगपत्रभरस्वरं सर उदारमुदारमनोहरम् ||३|| तरणतारणरीतिविशारदं मुनिवरव्रजसेवितकन्दरम् । प्रतिपदं विधिमण्डितमन्दिरं घनतटीतटताडकपाटकम् ||४|| चतुर्भिः कलापकम् । सुरवधूसुरवो वरविक्रमो जिनगृहे "नग्रहै" नमरीचिभिः ४१ । अयमपि स्पृहणीयविभो विभुर्बहुमहिः स्वमहीनमहीभृताम् ४४ ॥५॥ जिनपतामसमांगें गिरिं यति४६ स्वपतिमार्गमुदारकमाददे ४८ । अभयभावनभावनभासुर - प्रियमपि प्रमदा प्रमुदा सह ||६|| ० | समन्तात् मा माया येषां ते सुतरुतामाः सुतरुता - माश्च ते सन्तश्च तापसास्तेषां सुतरुतामसतां, अरसा गतश्रीस्तया वृतस्तं । यद्वा तमःसमूहस्तामसं सुतरूणां तामसं सुतरुतामसं अन्धकारसमूहः अपारवृक्षनिवासत्वात् । तामरसानि कमलानि तैरावृतस्तं । यद्वा सुतरुता च मश्च शिवः, सतो भावः सता, श्लेषेन लोप:, अमरसा च अमर श्रीः । सुतरुतामसतामरसास्ताभिरावृतस्तं तथा । यद्वा सुशोभनास्तरवो येषां ते सुतरवः एवंभूता ये तापसाः सुतरुतापसास्तेषां तापस्तपनं, सुतरुतापसतापस्तस्य रसा सुतरुतापसतापरसा, तया आवृतः सुत० तं तथा । [वा] सुतरव एव तापसाः सुतरुतापसास्तेषां तापस्तपनं तस्य रसा भूमिस्तयाऽऽवृतंस्तं तथा । सुतरुतापसतापरसावृतमिति पाठान्तरार्थद्वयं । यद्वा प्रकरणात् सरागता, अस्य ज्ञानस्य रसो अरसो ज्ञानामृतरसस्तेन आवृतस्तं । ३३. देवानां सज्जनानां वा पुष्पानां (णा ? ) । ३४. सजलधरातो निस्सरणाद्वालं नवीनं यत् कं जलं बालकं, ललितं यद्बालकं ललितबालकं तेन बालकभासा सा नवीनकान्तयो जना यत्र स तं । तथा यद्वा बालकं वनस्पतिविशेषं बालकं नवीनजलं च । बालकं च बालकं च बालकबालके, ललिते ये बालकबालके ललितबालकबालके, तयोर्भाजनं ललितबा० । यद्वा ललितवालैर्युक्तं कं मस्तकं येषां ते ललितवालकाः, एवंभूता ये बालकाः शिशवो ललितबालकबालकास्तद्भाः, सुजना यत्र स तं । अंबिकेष्पि (?) तयात्रां कर्तुकामागतसतंत्र बालकबालकभांसि विलोकितुं स्थितलोक इति भाव: । ३५. अमिता रा द्रव्यं येषां तेऽमितरायस्तेषां मतिर्यत्र स एवंभूतो यो रैवतिकाचलः अ० तं तथा । ३६. वसुमती च सुमतीशश्च सुराश्च वा सुमतीशसुरश्च नेमिस्तेषां प्रिय इष्टस्तं तथा । ३७. ऊर्ध्वलक्ष्मी: । ३८. ननूदारमनोहरयो: को विशेषो ? य एवोदारार्थः स एव मनोहरार्थः । पुनरुक्तिद्युतिरत्र । तच्छिदियम् - उद् ऊर्ध्वं य आरो गमनं उदार:, तेन मनोहरः । ३९. स्वामी । ४०. सूर्य: । ४१. ऋषिकविप्रसिद्धं नाम, आद्यचक्रिसुतस्य च । ४२. उज्जयन्तः । ४३. [व]र्तते इति शेष: । ४४. निन्दायै सु अमो रोगो येषु ते स्वमा अतीवरोगाः, तैर्हीनाः Jain Education International अनुसन्धान- ५० For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170