________________
५२
वसुमती सुमतीर्थैसुरप्रियं कपिकलासुकलापिगुरुं गुरुम् । मृगपतत्र्यगपत्रभरस्वरं सर उदारमुदारमनोहरम् ||३|| तरणतारणरीतिविशारदं मुनिवरव्रजसेवितकन्दरम् । प्रतिपदं विधिमण्डितमन्दिरं घनतटीतटताडकपाटकम् ||४|| चतुर्भिः कलापकम् ।
सुरवधूसुरवो वरविक्रमो जिनगृहे "नग्रहै" नमरीचिभिः ४१ । अयमपि स्पृहणीयविभो विभुर्बहुमहिः स्वमहीनमहीभृताम् ४४ ॥५॥ जिनपतामसमांगें गिरिं यति४६ स्वपतिमार्गमुदारकमाददे ४८ । अभयभावनभावनभासुर - प्रियमपि प्रमदा प्रमुदा सह ||६|| ० | समन्तात् मा माया येषां ते सुतरुतामाः सुतरुता - माश्च ते सन्तश्च तापसास्तेषां सुतरुतामसतां, अरसा गतश्रीस्तया वृतस्तं । यद्वा तमःसमूहस्तामसं सुतरूणां तामसं सुतरुतामसं अन्धकारसमूहः अपारवृक्षनिवासत्वात् । तामरसानि कमलानि तैरावृतस्तं । यद्वा सुतरुता च मश्च शिवः, सतो भावः सता, श्लेषेन लोप:, अमरसा च अमर श्रीः । सुतरुतामसतामरसास्ताभिरावृतस्तं तथा । यद्वा सुशोभनास्तरवो येषां ते सुतरवः एवंभूता ये तापसाः सुतरुतापसास्तेषां तापस्तपनं, सुतरुतापसतापस्तस्य रसा सुतरुतापसतापरसा, तया आवृतः सुत० तं तथा । [वा] सुतरव एव तापसाः सुतरुतापसास्तेषां तापस्तपनं तस्य रसा भूमिस्तयाऽऽवृतंस्तं तथा । सुतरुतापसतापरसावृतमिति पाठान्तरार्थद्वयं । यद्वा प्रकरणात् सरागता, अस्य ज्ञानस्य रसो अरसो ज्ञानामृतरसस्तेन आवृतस्तं । ३३. देवानां सज्जनानां वा पुष्पानां (णा ? ) । ३४. सजलधरातो निस्सरणाद्वालं नवीनं यत् कं जलं बालकं, ललितं यद्बालकं ललितबालकं तेन बालकभासा सा नवीनकान्तयो जना यत्र स तं । तथा यद्वा बालकं वनस्पतिविशेषं बालकं नवीनजलं च । बालकं च बालकं च बालकबालके, ललिते ये बालकबालके ललितबालकबालके, तयोर्भाजनं ललितबा० । यद्वा ललितवालैर्युक्तं कं मस्तकं येषां ते ललितवालकाः, एवंभूता ये बालकाः शिशवो ललितबालकबालकास्तद्भाः, सुजना यत्र स तं । अंबिकेष्पि (?) तयात्रां कर्तुकामागतसतंत्र बालकबालकभांसि विलोकितुं स्थितलोक इति भाव: । ३५. अमिता रा द्रव्यं येषां तेऽमितरायस्तेषां मतिर्यत्र स एवंभूतो यो रैवतिकाचलः अ० तं तथा । ३६. वसुमती च सुमतीशश्च सुराश्च वा सुमतीशसुरश्च नेमिस्तेषां प्रिय इष्टस्तं तथा । ३७. ऊर्ध्वलक्ष्मी: । ३८. ननूदारमनोहरयो: को विशेषो ? य एवोदारार्थः स एव मनोहरार्थः । पुनरुक्तिद्युतिरत्र । तच्छिदियम् - उद् ऊर्ध्वं य आरो गमनं उदार:, तेन मनोहरः । ३९. स्वामी । ४०. सूर्य: । ४१. ऋषिकविप्रसिद्धं नाम, आद्यचक्रिसुतस्य च । ४२. उज्जयन्तः । ४३. [व]र्तते इति शेष: । ४४. निन्दायै सु अमो रोगो येषु ते स्वमा अतीवरोगाः, तैर्हीनाः
Jain Education International
अनुसन्धान- ५०
For Private & Personal Use Only
www.jainelibrary.org