________________
डिसेम्बर-२००९
५३
स जयति जिननेमिः श्रीवरावासवासः स जयति जिननेमिः श्रीवरावासवासः । स जयति जिननेमिः श्रीवरावासवासः स जयति जिननेमिः श्रीवरावासवासः ॥७॥ अ[अं]त्यस्योपरि शब्दानां विस्तरोऽत्र विचार्यताम् । कुत्रचित्तस्थयोगोऽपि प्राघूर्णकसमोऽस्ति सन् |८|| व्यतन्वन् साधुहर्षास्सत् सुमतिलाभहेतवे । विद्वल्लक्ष्मणनिर्देशा-दावासवर्णनं लसत् ।।९।।
__ इति भवनवर्णनभवनभूषणे भूषणभवने अष्टमाष्टकम् । भक्त्या वा(वो)ज्झितपातकाः क्षितितले वो वै नमस्कारका ये भव्या नृभवं मुदेत्यविपुलं पुण्यं प्रकुर्वन्ति ते । अर्हन्तो भवदाशिषा स्थिरहृदः श्राद्ध विभान्तूद्धतात् (?) संख्यावद्यतयः श्रुताच्छमतयोऽस्मत्काव्यभव्यार्थिनः ॥१॥ मात्सर्याप्तो निजं वक्त्रं वक्रं ह्यतः करिष्यति । गतां च हीनतां सत्यं क्षुद्रकाप्तस्य विग्रहः ॥२॥
वाचक साधुहर्षगणिविरचिते सदुचिते भूषणभवनभवनभूषणकाव्यं सम्पूर्णमिति। श्रीरस्तु लेखकवाचकयोः ।
जैन देरासर, नानी खाखर-३७०४३५, कच्छ, गुजरात स्वमहीना एवंभूता ये महीभृतः पर्वतास्तेषां १ । यद्वा स्वयुक्ता मही स्वमही, तस्या इनाः स्वामिनः स्वमहीनाः, एवंभूता ये महीभूतस्तेषां, तथा २ । यद्वा स्वेन द्रव्येण महो येषां ते स्वमहिनः स्वोत्सवा, एवंभूता इना राजानो यत्र ते स्वमहीनाः, एवंभूता ये महीभृतस्तेषां ३ । यद्वा अस्य महः अमहः कृष्णमहोत्सवः, अमहो विद्यते येषां ते अमहिनः, सुष्टु शोभना अमहिनः स्वमहिनः, तेषांमिना येषु ते सु(स्व)महीनाः, एवंभूताश्च ते महीभृतश्च तेषां तथा ।४। यद्वा स्वेन मा येषां ते स्वमाः, तैीनाः, शेषं तथैव, इत्थमन्येऽप्यर्था यथाबुद्धि कार्याः । स्वमहीनं यथा स्यात्तथा, अहीभृतां, अहयश्च इश्च अहयः, ताबिभर्ति(?) अहीभृतस्तेषां तथा । ४५. सप्तकृटं । ४६. गच्छति सति । ४७. उदारेण उद्गमनेन कं सुखं यत्र स उदारकस्तं तथा, वा उदारकं कमनीयं कं पानीय यत्र स उदार०, तं तथा सुअमः स्वमः । सु इति अमेति शेषस्तुतिः । ४८. जग्रहे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org