Book Title: Anusandhan 2009 12 SrNo 50
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
४०
अनुसन्धान-५०
त्वां भास्करं जिन ! विना तमसः समूहान् कस्तान्निवारयति संचरतो यथेष्टम् ।।१४।। सिंहासनं विमलहेममये विरेजे, मध्यस्थित-त्रिजदीशश्वरमूर्तिरम्यम् । नोद्योतनार्थमुपरिस्थितसूर्यबिम्बं, किं मन्दरादिशिखरं चलितं कदाचित् ।।१५।। दोषाकरो न सकरो न कलङ्कयुक्तो, नास्तं गतो न सतमानसविग्रहो न(?) । स्वामिन्विधुर्जगति नाभिनरेन्द्रवंश-दीपोपरस्त्वमसि नाथ ! जगत्प्रकाशः ।।१६।। नित्योदयस्त्रिजगतीस्थतमोपहारी, भव्यात्मनां वदनकैरवबोधकारी । मिथ्यात्वमेघपटलैन[स] मावृतो यत्सूर्यातिशायिमहिमासि मुनीन्द्र ! लोके ॥१७|| लावण्य-पुण्य-सुवरेण्य-सुधानिधानं, प्रह्लादकं जनविलोचनकैरवाणाम् । वक्त्रं विभो तव विभाति विभातिरेकं विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ।।१८|| ध्यातस्त्वमेव यदि देव ! मनोभिलाष-पूर्णीकरः किमपरैर्विविधैरुपायैः । नि:पद्यते यदि च भौमजलेन धान्यं, कायं कियज्जलधरैर्जलभारननैः ।।१९।। माहात्म्यमस्ति यदनन्तगुणाभिरामं, सर्वज्ञ ! ते हरिहरादिषु तल्लवो न । चिन्तामणौ हि भवतीह यथा प्रभावो, नैव तु काचकशले किरणाकुलेपि ॥२०॥ तद्देव ! देहि मम दर्शनमात्मनस्त्वमत्यद्भुतं नृनयनामृतमत्र दृष्टे । स्वामिन्निहापि परमेश्वर ! मेऽन्यदेव ! कश्चिन्मनो हरति नाथ भवान्तरेपि ॥२१॥ ज्ञानस्य शिष्टतरदृष्टसमस्त लोका-लोकस्य शीघ्र हतसंतमसस्य शश्वत् । दाता त्वमेव भुवि देव ! हि-तं (?) प्राच्येव दिग्जनयति स्फुरदंशुजालम् ।।२२।। सिंहासनस्थभवदुक्तचतुर्विधात्म-धर्मादृते त्रिजगदीश ! युगादिदेव ! । सद्दानशीलतपनिर्मलभावनाख्यान् नान्यः शिवः शिवपदस्य मुनीन्द्र पन्थाः ॥२३।। स्वामिन्ननन्तगुणयुक्त कषायमुक्त साक्षात्कृतत्रिजगदेव ! भवत्सदृक्षाः । नान्ये विभङ्गमतयो रुचिरं च पञ्च ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥२४॥ चिन्तामणिर्मणिषु धेनुषु कामधेनु-र्गङ्गा नदीषु नलिनेषु च पुण्डरीकम् । कल्पद्रुमस्तरुषु देव यथा तथात्र व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि ॥२५॥ भास्वद्गुणाय करणाय मुदो रणाय, विद्याचणाय कमलप्रतिमेक्षणाय । पुंसां छलेन पतितं पुरतो हि रत्र दृष्येत किं नियतमंतर तत्त्वदृष्ट्या । मोहावृतेन मयका त्वयि संस्थितेने, स्वप्नान्तरेपि न कदाचिदपीक्षितोषि ॥२७॥(?) मन्मानसांतरगतं भवदीय नाम पापं प्रणाशयति पारगत ! प्रभूतम् । श्रीमयुगादिजिनराज हिमं समन्ताद्, बिम्बं रवेरिव पयोधरपार्श्ववर्त्ति ।।२८।। जन्माभिषेकसमये गिरिराजशृङ्गे, प्रस्थापितं तव वपुर्विधिना सुरेन्द्रैः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170