Book Title: Anusandhan 2009 12 SrNo 50
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३४
अनुसन्धान-५०
नाक्रामति । क्रमयोर्युगं क्रमयुगं तदेव अचलः [तं संश्रितः] क्रमयुगाचलसंश्रितः, तं क्रमयुगाचलसंश्रितम् । कथम्भूतः हरिणाधिपः ? बद्धफालः । कथम्भूतं सेवकं ? क्रमगतं समीपप्राप्तम् । पुनः कथम्भूतः हरिणाधिपः ? भिन्नेभकुम्भगलदुज्वलशोणिताक्त-मुक्ताफलप्रकर भूषित भूमिभागः । भिन्नाश्च ते इभकुम्भाश्च भिन्नेभकुम्भास्तेभ्यो गलत् क्षरच्च तत् उज्ज्वलं शोणितं च भिन्नेभकुम्भगलदुज्जूलशोणितं, तेन अक्तो - मिलितो मुक्ताफलानां प्रकरः भिन्नेभकुम्भगलदुज्वलशोणिताक्तमुक्ताफलप्रकरस्तेन भूषितो भूमिभागो येन सः ||३५||
कल्पान्तेति ॥ हे स्वामिन् ! त्वन्नामकीर्त्तनजलं शेषं समस्तं दावानलं शमयति । तव नाम त्वन्नाम त्वन्नाम्नः कीर्त्तनजलं - त्वन्नामकीर्त्तनजलम् । कथम्भूतं दावानलं ? कल्पान्तकालपवनोद्धतवहिनकल्पम् । कल्पान्तकालस्य पवनेन उद्धतश्चासौ वहिनश्च तेन कल्पः कल्पान्तकालपवनोद्धतवह्निकल्पस्तम् । पुनः कथम्भूतं दावानलं ? ज्वलितं - देदीप्यमानमित्यर्थः । कथम्भूतं दावानलम् ? उज्ज्वलम्, निर्धूममित्यर्थः । पुनः कथम्भूतं दावानलम् ? उत्स्फुलिङ्गं । उत्ऊर्ध्वा स्फुलिङ्गा यस्य स उत्स्फुलिङ्गस्तम् । पुनः कथम्भूतं सन्मुखं आपतन्तंआगच्छन्तं दावानलम् । किं कर्त्तुमिच्छन्तं इव ? । विश्वं जिघत्सुं इव, अत्तुमिच्छुः जिघत्सुः तं जिघत्सुम् ||३६||
रक्तेक्षणमिति ॥ हे जिन ! यस्य पुंसः हृदि त्वन्नामनागदमनी ऽस्ति स पुरुषः निरस्तशङ्कः सन्- निःशङ्कः सन् क्रमयुगेन- चरणयुगेन फणिनं आपतन्तंआगच्छन्तं आक्रामति - निवारयति । तव नाम त्वन्नाम त्वन्नामनागदमनी जटिका । कथम्भूतं फणिनं ? उत्फणिनं (उत्फणं) । उत्- ऊर्ध्वं फणो यस्य स उत्फणस्तम् । पुनः कथम्भूतं फणिनम् ? रक्तेक्षण; रक्ते ईक्षणे यस्य स रक्तेक्षणस्तम् । पुनः कथम्भूतं फणिनम् ? समदकोकिलकण्ठनीलं । समदश्चासौ कोकिलश्च समदकोकिलस्तस्य कण्ठवन्नीलः समदकोकिलकण्ठनीलस्तम् । पुनः कथम्भूतं फणिनं ? क्रोधोद्धतं क्रोधेन उद्धतः उत्कटः क्रोधोद्धतस्तम्
॥३७॥
वल्गेति ॥ हे जिन ! त्वत्कीर्त्तनाद्, बलवतामपि भूपतीनां - राजानां (राज्ञां) बलं-कटकं, आजौ -रणे आशु शीघ्रं भिदां-भेदं उपैति प्राप्नोति । कथम्भूतं बलम् ? वल्गत्तुरङ्गगजगर्जितभीमनादं । वल्गत्तुरङ्गाश्च गजानां गर्जितानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170