SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ३४ अनुसन्धान-५० नाक्रामति । क्रमयोर्युगं क्रमयुगं तदेव अचलः [तं संश्रितः] क्रमयुगाचलसंश्रितः, तं क्रमयुगाचलसंश्रितम् । कथम्भूतः हरिणाधिपः ? बद्धफालः । कथम्भूतं सेवकं ? क्रमगतं समीपप्राप्तम् । पुनः कथम्भूतः हरिणाधिपः ? भिन्नेभकुम्भगलदुज्वलशोणिताक्त-मुक्ताफलप्रकर भूषित भूमिभागः । भिन्नाश्च ते इभकुम्भाश्च भिन्नेभकुम्भास्तेभ्यो गलत् क्षरच्च तत् उज्ज्वलं शोणितं च भिन्नेभकुम्भगलदुज्जूलशोणितं, तेन अक्तो - मिलितो मुक्ताफलानां प्रकरः भिन्नेभकुम्भगलदुज्वलशोणिताक्तमुक्ताफलप्रकरस्तेन भूषितो भूमिभागो येन सः ||३५|| कल्पान्तेति ॥ हे स्वामिन् ! त्वन्नामकीर्त्तनजलं शेषं समस्तं दावानलं शमयति । तव नाम त्वन्नाम त्वन्नाम्नः कीर्त्तनजलं - त्वन्नामकीर्त्तनजलम् । कथम्भूतं दावानलं ? कल्पान्तकालपवनोद्धतवहिनकल्पम् । कल्पान्तकालस्य पवनेन उद्धतश्चासौ वहिनश्च तेन कल्पः कल्पान्तकालपवनोद्धतवह्निकल्पस्तम् । पुनः कथम्भूतं दावानलं ? ज्वलितं - देदीप्यमानमित्यर्थः । कथम्भूतं दावानलम् ? उज्ज्वलम्, निर्धूममित्यर्थः । पुनः कथम्भूतं दावानलम् ? उत्स्फुलिङ्गं । उत्ऊर्ध्वा स्फुलिङ्गा यस्य स उत्स्फुलिङ्गस्तम् । पुनः कथम्भूतं सन्मुखं आपतन्तंआगच्छन्तं दावानलम् । किं कर्त्तुमिच्छन्तं इव ? । विश्वं जिघत्सुं इव, अत्तुमिच्छुः जिघत्सुः तं जिघत्सुम् ||३६|| रक्तेक्षणमिति ॥ हे जिन ! यस्य पुंसः हृदि त्वन्नामनागदमनी ऽस्ति स पुरुषः निरस्तशङ्कः सन्- निःशङ्कः सन् क्रमयुगेन- चरणयुगेन फणिनं आपतन्तंआगच्छन्तं आक्रामति - निवारयति । तव नाम त्वन्नाम त्वन्नामनागदमनी जटिका । कथम्भूतं फणिनं ? उत्फणिनं (उत्फणं) । उत्- ऊर्ध्वं फणो यस्य स उत्फणस्तम् । पुनः कथम्भूतं फणिनम् ? रक्तेक्षण; रक्ते ईक्षणे यस्य स रक्तेक्षणस्तम् । पुनः कथम्भूतं फणिनम् ? समदकोकिलकण्ठनीलं । समदश्चासौ कोकिलश्च समदकोकिलस्तस्य कण्ठवन्नीलः समदकोकिलकण्ठनीलस्तम् । पुनः कथम्भूतं फणिनं ? क्रोधोद्धतं क्रोधेन उद्धतः उत्कटः क्रोधोद्धतस्तम् ॥३७॥ वल्गेति ॥ हे जिन ! त्वत्कीर्त्तनाद्, बलवतामपि भूपतीनां - राजानां (राज्ञां) बलं-कटकं, आजौ -रणे आशु शीघ्रं भिदां-भेदं उपैति प्राप्नोति । कथम्भूतं बलम् ? वल्गत्तुरङ्गगजगर्जितभीमनादं । वल्गत्तुरङ्गाश्च गजानां गर्जितानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520550
Book TitleAnusandhan 2009 12 SrNo 50
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy