Book Title: Anusandhan 2009 12 SrNo 50
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 46
________________ डिसेम्बर-२००९ शशाङ्ककान्तं-शशाङ्कवत् मनोहरमित्यर्थः । पुनः कथम्भूतं छत्रम् ? स्थगित भानुकरप्रतापं, स्थगित: आच्छादित:- भानुकराणां प्रतापो येन तत् । पुनः कथम्भृतं छत्रम् ? मुक्ताफलप्रकरजालविवृद्धशोभम् । मुक्ताफलानां प्रकरा: मुक्ताफलप्रकराः तेषां जालेन विवृद्धा शोभा यस्य तत् । उत्प्रेक्षते- छत्रत्रयं किं कुर्वत् इव ? त्रिजगतः परमेश्व[र] त्वं प्रख्यापयत् इव ॥३१॥ उन्निद्रेति ।। हे जिनेन्द्र ! तव पादौ यत्र भूमौ पदानि गमनस्थानरूपाणि धत्तोधारयत:,विबुधा देवास्तत्र धरापीठे पद्मानि रचयन्ति । किविशिष्टौ पादौ ? उन्निद्रहेमनवपङ्कजपुञ्जकान्तिः । उन्निद्रानि विकश्वराणि हेम्न: नवानि नूतनानि नवसंख्यकानि वा पङ्कजानि उन्निद्रहेमनवपङ्कजानि तेषां पुञ्ज उन्निद्रहेमनवपङ्कजपुञ्जस्तस्य कान्तिः उन्निद्रहेमनवपङ्कजपुञ्जकान्ति: तया पर्युल्लसन्ती नखमयूखानां शिखा उन्निद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखशिखा तया अभिरामौ ।।३२।। इत्थमिति ॥ हे जिनेन्द्र ! धर्मोपदेशनविधौ यथा तव विभूतिः इत्थं अभूत् तथा अपरस्य न । अथ उक्तमर्थमर्थान्तरन्यासेन द्रढयति - यादृक् दिनकृतः-सूर्यस्य प्रभा भवति तादृक् ग्रहगणस्य कुतः ? कथम्भूता दिनकृतः ? प्रहतान्धकारा, प्रकर्षेण हतं अन्धकारं यया सा प्रहतान्धकारा । ग्रहगणस्य कथम्भूतस्यापि ? विकाशिन:-अपि । विकासो विद्यते यस्य स विकाशी, तस्य विकाशिनः ॥३३॥ श्च्योतन्मदेति ॥ हे स्वामिन् ! भवत्-आश्रितानां-भवत्-सेवकानां, इभं-हस्तिनं आपतन्तं दृष्ट्वा भयं न भवति । कथम्भूतं इभं ? उद्धतम् । उत्कटमित्यर्थः । पुनः कथम्भूतं इभं ? ऐरावताभं ऐरावत इव आभाकान्तिर्यस्येति ऐरावताभस्तं ऐरावताभं । पुनः कथम्भूतं इभम् ?, श्च्योतन्मदाविलविलोलक-पोलमूलं, मत्तभ्रमभ्रमरनादविवृद्धकोपम् । श्च्योतंश्चासौ मदः श्च्योतन्मदः, तेन आविलं च तत् विलोलकपोलमूलं श्च्योतन्मदाविलविलोलकपोलमूलं । मत्ताश्च ते भ्रमन्तो भ्रमराश्च श्च्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमरा: । तेषां नादेन विवृद्धः कोपो यस्य स श्च्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमद्-भ्रमरनादविवृद्धकोपस्तम् ॥३४॥ भिन्नेति ।। हरिणाधिप: - सिंहः, अपि ते-तव क्रमयुगाचलसंश्रितं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170