SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ डिसेम्बर-२००९ २५ भक्तामरप्रणि( ण )तमौलिमणिप्रभाणामिति । यः समिति । अस्य व्याख्या-किलेत्यव्ययं पदं सत्यागमनमङ्गलार्थवाचि । अहमपि प्रथमं जिनेन्द्रं स्तोष्ये । किं कृत्वा ? जिनपादयुगं सम्यक् प्रणम्य । जिनस्य प्रथमतीर्थकृतः पादौ-चरणौ, तयोर्युगं-युग्मं जिनपादयुगम् । सम्यक् त्रिका(क)रणशुद्ध्या, नत्वा । कथम्भूतं जिनपादयुगं?, भक्तामरप्रणतमौलिमणिप्रभाणां उद्योतकम् । भक्ताश्च तेऽमराश्च भक्तामराः, तेषां प्रणता ये मौलयः, तेषु ये मणयः, [तेषां याः प्रभाः ता:] भक्तामरप्रणतमौलिमणिप्रभाः, तासां भक्तामरप्रणतमौलिमणिप्रभाणाम् । उद्योतयतीति उद्योतकम् । तत्प्रकाशकमित्यर्थः । पुनः कथम्भूतं जिनपादयुगं ?, दलितपापतमोवितानम् । दलितं-दूरीकृतं पापतमसो वितानं येन तत् दलितपापतमोवितानम् । तत्पुनः किम्भूतं जिनपादयुगं ?, भवजले पततां जनानां युगादौ आलम्बनम् । भव एव जलं भवजलम् । तस्मिन् भवजलेसंसारसमुद्रे, पतन्तीति पतन्तः, तेषां पतताम् । युगस्य आदिः युगादिः, तस्मिन् युगादौ । तं इति कम् ?! यः सुरलोकनाथ:(थैः) स्तोत्रैः संस्तुत: । सुष्ठ राजन्ते इति सुराः, तेषां लोको-जगत् स्वर्गः, तस्य नाथैः-प्रभृतिभिः (? भूपतिभिः ?) सुरलोकनाथैः । संस्तुतः- सम्यक् स्तुतः । कथम्भूतं (तैः) सुरलोकनाथैः ?, सकलवाङ्मयतत्त्वबोधात् उद्भूतबुद्धिपटुभिः । 'वाचि विकारो वाड्मयं, सकलं च तत् वाङ्मयं च सकलवाड्मयं, तस्य तत्त्वं सकलवाङ्मयतत्त्वं, तस्य बोधः सकल वाङ्मयतत्त्वबोधः, तस्मात् । उद्भूतश्चासौ बुद्धिश्च उद्भूतबुद्धिः, तया पटवः उद्भूतवुद्धिपटवः, तैः । कथम्भूतैः स्तोत्रैः ?, जगत्रितयचित्तहरैः । जगतां त्रितयं जगत्रितयं, जगत्रितयस्य चित्तं जगत्रितयचित्तं, तस्य हराणि जगत्रितय-चित्तहराणि तैः । पुनः किं० स्तोत्रैः ?, उदारैः-प्रधानैः ॥१-२॥ युग्मम् ।। बुद्धयेति । हे विवुधार्चितपादपीठ ! अहं विगतत्रपः अस्मि । विबुधैर्देवै: अचितं पादपीठं यस्य स विबुधार्चितपादपीठ: । वि-विशेषेण गता त्रपा यस्मात् स विगतत्रपः । निर्लज्ज इत्यर्थः । कथम्भूतोऽहम् ?, बुद्ध्या विनाऽपि स्तोतुं- स्तवनां कर्तुं समुद्यतमतिः । उक्तमर्थमर्थान्तरन्यासेन द्रढयतिवालं विहाय जलसंस्थितं इन्दुबिम्बं-चन्द्रमण्डलं अन्यजन: सहसा ग्रहीतुं क Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520550
Book TitleAnusandhan 2009 12 SrNo 50
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy