SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ २६ इच्छति ? ||३|| !! वक्तुमिति । हे गुणसमुद्र ! ते गुणान् बुद्ध्या सुरगुरुप्रतिमः कः क्षम:कः समर्थः ? । गुणानां समुद्रः गुणसमुद्रः, तत्सम्बोधनं क्रियते--हे गुणसमुद्र सुरगुरुणा प्रतिमीयते इति सुरगुरुप्रतिमः - बृहस्पतितुल्योऽपि । कथम्भूतान् ?, शशाङ्ककान्तान्, शशाङ्कवत् कान्ताः शशाङ्ककान्ता:, तान् शशाङ्ककान्तान् । उक्तमर्थमर्थान्तरन्यासेन द्रढयति- अम्बुनिधि समुद्रं भुजाभ्यां तरीतुं कः अलं-कः समर्थः ? न कोऽपीत्यर्थः । कथम्भूतं अम्बुनिधिम् ?, कल्पान्तकालपवनोद्धतनक्रचक्रं कल्पान्तकालस्य पवनः तेन उद्धता - ऊर्ध्वं गता नक्रचक्रा यस्मिन् स कल्पान्तकालपवनोद्धतनक्रचक्रस्तम् ॥४॥ , अनुसन्धान-५० सोऽहमिति । स अहं तथापि भक्तिवशात् तव स्तवं कर्तुं प्रवृत्तः अस्मि सावधानो जातोऽस्मि । कथम्भूतः अहम् ?, विगतशक्तिः अपि वि-विशेषेण गता शक्तिर्यस्य स विगतशक्तिः । अधुना । उक्तमर्थमर्थान्तरन्यासेन द्रढयतिमृग: निजशिशोः परिपालनार्थं स्वपुत्ररक्षार्थं किं न अभ्येति किं न सन्मुखं याति ? अपि तु अभ्येत्येव । किं कृत्वा ? प्रीत्या - स्वस्नेहेन आत्मवीर्यंस्वपराक्रमं अविचार्य न विचार्य इत्यर्थः ॥५॥ I 1 अल्पश्रुतमिति । हे मुनीश ! त्वद्भक्तिः एव बलात् मां मुखरी - वाचाल: कुरुते । अमुखरं मुखरं कुरुते इति मुखरीकुरुते । कथम्भूतं मां ?, अल्पश्रुतं अल्पं - स्तोकं श्रुतं यस्य स: [तं] अल्पश्रुतम् । पुनः कथम्भूतं मां ?, श्रुतवतां परिहासमा ( धाम ) । श्रुतं विद्यते येषां ते श्रुतवन्तः तेषां परिहासस्य धाम - परिहासधाम । उक्तमर्थमर्थान्तरन्यासेन द्रढयति - किल इति निश्चयेन । यत् कोकिलः मधौ मधुरं विरौति तत् चारुचूतकलिकानिकरैकहेतुः । चारवश्च ताः चूतकलिकाश्च चारुचूतकलिका: । तासां निकर:- समूह:, स एवैको - ऽद्वितीयो हेतु: चारुः ||६|| Jain Education International , हे स्वामिन् ! शरीरं भजती (न्ती ) ति शरीरभाजः तेषां पुरुषाणां अशेषं पापं त्वत्संस्तवेन क्षणात् क्षयं उपैति प्राप्नोतीत्यर्थः । कथम्भूतं पापं ?, भवसन्ततिसन्निबद्धम् । भवानां सन्ततिर्भवसन्ततिः । भवसन्तत्या सं- सम्यक् प्रकारेण निबद्धं दृष्टं बद्धं भवसन्ततिसन्निबद्धम् । पुनः कथम्भूतं पापं ?, आक्रान्तलोकम् । पुनः किंविशिष्टं पापं ?, उत्प्रेक्षते - पापं कमिव ? सूर्यांशुभिन्नं For Private & Personal Use Only www.jainelibrary.org
SR No.520550
Book TitleAnusandhan 2009 12 SrNo 50
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy