Book Title: Anusandhan 2009 12 SrNo 50
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
डिसेम्बर २००९
जगत्त्रितये वर्तमानानि उपमानानि - उपमा येन तत्तथोक्तम् । भगवन्मुखतुल्यं किञ्चिदपि नास्तीत्यर्थः । चन्द्रबिम्बमुपमानं भविष्यतीति चेत्, आह- बिम्बमण्डलं क्व ? नैतत् । कीदृशम् ? कलङ्कमलिनं मृगलाञ्छनलाञ्छितं कुशोभमित्यर्थः । कस्य ? निशाकरस्य - चन्द्रस्य, यद्-बिम्बं भवति जायते । क्व ? वासरे-दिवसे । कीदृशम् ? पाण्डुपलाशकल्पं पक्वपत्रतुल्यम् । कलङ्कयुक्तत्व-निस्तेजस्त्वाभ्यां न समानं भगवन्मुखं च विपरीतम् ॥१३॥ निरुपमगुणाश्रयत्वाद् भगवान् स्तुत्य [इ]ति दर्शयि (य) तिसम्पूर्णमण्डलशशाङ्ककलाकलाप !
शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति ।
ये संस्त्रि ( श्रि ) तात्रिजगदीश्वर ! नाथमेकं
कस्त (स्तान् ) निवारयति पञ्चरतो यथेष्टम् ? ॥१४॥
हे सम्पूर्णमण्डलशशाङ्ककला [ कला ] प ! - परिपूर्णबिम्बो यः शशाङ्कःचन्द्रस्तस्य कला तत्कलापो - द्विसप्ततिकलासमूहो यस्य स तथोक्तः, तस्यामन्त्रणं हे सम्पूर्णे त्यादि । एते गुणा - ज्ञानादयः शुभ्रा - धवलास्तव - भवतस्त्रिभुवनंजगत्त्रयं लङ्घयन्ति - अतिक्रामन्ति - जयन्तीत्यर्थः । ये संश्रिता - आश्रितास्त्रिजगदीश्वर ! - हे भुवनत्रय प्रभो ! । कं संश्रिता: ? नाथं - स्वामिनं च । किम्भूतम् ? एकं -अद्वितीयम्। यद्वा त्रिजगदीश्वरा भवनपति - व्यन्तर-ज्यो [ति ] ष्क-वैमानिकेन्द्रास्तेषां नाथं-स्वामिनं त्वां संश्रित्या (ता: ) । अत्रार्थेऽर्थान्तरन्यासमाह-एकरु (क?) क्षष्ट(स्थि ? ) तान् गुणान् सञ्चरतो - भ्रमतः । कथम् ? यथेष्टं स्वेच्छया को निवारयति-निषेधयति ? नैव कश्चित् ॥१४॥
चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि-नतं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन किं मन्दराद्रिशिखरं चलितं कदाचित् ? ॥१५॥
Jain Education International
९
-
किमत्र चित्रं किमाश्चर्यमेतस्मिन् यदि यद् न नीतं न गमितम् । किं तत् ? मनः - चित्तम् । कस्य ? ते तव । कं न नीतम् ? विकारमार्ग - विकृतिपथम् । क्थम् ? मनागपि स्तोकनपि । काभिः ? त्रिदशाङ्गनाभि:देवकान्ताभिः । अत्रार्थेऽर्थान्तरन्यासमाह किं का (क) दाचित् - कस्मिंश्चित् काले
-
For Private & Personal Use Only
-
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170